Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-34

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
ब्राह्मण्युवाच ।
नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना ।
बहु चाल्पं च संक्षिप्तं विप्लुतं च मतं मम ॥१॥
1. brāhmaṇyuvāca ,
nedamalpātmanā śakyaṁ vedituṁ nākṛtātmanā ,
bahu cālpaṁ ca saṁkṣiptaṁ viplutaṁ ca mataṁ mama.
उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः ।
तन्मन्ये कारणतमं यत एषा प्रवर्तते ॥२॥
2. upāyaṁ tu mama brūhi yenaiṣā labhyate matiḥ ,
tanmanye kāraṇatamaṁ yata eṣā pravartate.
ब्राह्मण उवाच ।
अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः ।
तपःश्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः ॥३॥
3. brāhmaṇa uvāca ,
araṇīṁ brāhmaṇīṁ viddhi gururasyottarāraṇiḥ ,
tapaḥśrute'bhimathnīto jñānāgnirjāyate tataḥ.
ब्राह्मण्युवाच ।
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति संज्ञितम् ।
ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु ॥४॥
4. brāhmaṇyuvāca ,
yadidaṁ brahmaṇo liṅgaṁ kṣetrajñamiti saṁjñitam ,
grahītuṁ yena tacchakyaṁ lakṣaṇaṁ tasya tatkva nu.
ब्राह्मण उवाच ।
अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते ।
उपायमेव वक्ष्यामि येन गृह्येत वा न वा ॥५॥
5. brāhmaṇa uvāca ,
aliṅgo nirguṇaścaiva kāraṇaṁ nāsya vidyate ,
upāyameva vakṣyāmi yena gṛhyeta vā na vā.
सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते ।
कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम् ॥६॥
6. samyagapyupadiṣṭaśca bhramarairiva lakṣyate ,
karmabuddhirabuddhitvājjñānaliṅgairivāśritam.
इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते ।
पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते ॥७॥
7. idaṁ kāryamidaṁ neti na mokṣeṣūpadiśyate ,
paśyataḥ śṛṇvato buddhirātmano yeṣu jāyate.
यावन्त इह शक्येरंस्तावतोंऽशान्प्रकल्पयेत् ।
व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः ॥८॥
8. yāvanta iha śakyeraṁstāvatoṁ'śānprakalpayet ,
vyaktānavyaktarūpāṁśca śataśo'tha sahasraśaḥ.
सर्वान्नानात्वयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान् ।
यतः परं न विद्येत ततोऽभ्यासे भविष्यति ॥९॥
9. sarvānnānātvayuktāṁśca sarvānpratyakṣahetukān ,
yataḥ paraṁ na vidyeta tato'bhyāse bhaviṣyati.
वासुदेव उवाच ।
ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंक्षये ।
क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते ॥१०॥
10. vāsudeva uvāca ,
tatastu tasyā brāhmaṇyā matiḥ kṣetrajñasaṁkṣaye ,
kṣetrajñādeva parataḥ kṣetrajño'nyaḥ pravartate.
अर्जुन उवाच ।
क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः ।
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ॥११॥
11. arjuna uvāca ,
kva nu sā brāhmaṇī kṛṣṇa kva cāsau brāhmaṇarṣabhaḥ ,
yābhyāṁ siddhiriyaṁ prāptā tāvubhau vada me'cyuta.
वासुदेव उवाच ।
मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् ।
क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनंजय ॥१२॥
12. vāsudeva uvāca ,
mano me brāhmaṇaṁ viddhi buddhiṁ me viddhi brāhmaṇīm ,
kṣetrajña iti yaścoktaḥ so'hameva dhanaṁjaya.