Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-1

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
शमो बहुविधाकारः सूक्ष्म उक्तः पितामह ।
न च मे हृदये शान्तिरस्ति कृत्वेदमीदृशम् ॥१॥
1. yudhiṣṭhira uvāca ,
śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha ,
na ca me hṛdaye śāntirasti kṛtvedamīdṛśam.
अस्मिन्नर्थे बहुविधा शान्तिरुक्ता त्वयानघ ।
स्वकृते का नु शान्तिः स्याच्छमाद्बहुविधादपि ॥२॥
2. asminnarthe bahuvidhā śāntiruktā tvayānagha ,
svakṛte kā nu śāntiḥ syācchamādbahuvidhādapi.
शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च ।
शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् ॥३॥
3. śarācitaśarīraṁ hi tīvravraṇamudīkṣya ca ,
śamaṁ nopalabhe vīra duṣkṛtānyeva cintayan.
रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् ।
त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम् ॥४॥
4. rudhireṇāvasiktāṅgaṁ prasravantaṁ yathācalam ,
tvāṁ dṛṣṭvā puruṣavyāghra sīde varṣāsvivāmbujam.
अतः कष्टतरं किं नु मत्कृते यत्पितामहः ।
इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे ।
तथैवान्ये नृपतयः सहपुत्राः सबान्धवाः ॥५॥
5. ataḥ kaṣṭataraṁ kiṁ nu matkṛte yatpitāmahaḥ ,
imāmavasthāṁ gamitaḥ pratyamitrai raṇājire ,
tathaivānye nṛpatayaḥ sahaputrāḥ sabāndhavāḥ.
वयं हि धार्तराष्ट्राश्च कालमन्युवशानुगाः ।
कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप ॥६॥
6. vayaṁ hi dhārtarāṣṭrāśca kālamanyuvaśānugāḥ ,
kṛtvedaṁ ninditaṁ karma prāpsyāmaḥ kāṁ gatiṁ nṛpa.
अहं तव ह्यन्तकरः सुहृद्वधकरस्तथा ।
न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ ॥७॥
7. ahaṁ tava hyantakaraḥ suhṛdvadhakarastathā ,
na śāntimadhigacchāmi paśyaṁstvāṁ duḥkhitaṁ kṣitau.
भीष्म उवाच ।
परतन्त्रं कथं हेतुमात्मानमनुपश्यसि ।
कर्मण्यस्मिन्महाभाग सूक्ष्मं ह्येतदतीन्द्रियम् ॥८॥
8. bhīṣma uvāca ,
paratantraṁ kathaṁ hetumātmānamanupaśyasi ,
karmaṇyasminmahābhāga sūkṣmaṁ hyetadatīndriyam.
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः ॥९॥
9. atrāpyudāharantīmamitihāsaṁ purātanam ,
saṁvādaṁ mṛtyugautamyoḥ kālalubdhakapannagaiḥ.
गौतमी नाम कौन्तेय स्थविरा शमसंयुता ।
सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम् ॥१०॥
10. gautamī nāma kaunteya sthavirā śamasaṁyutā ,
sarpeṇa daṣṭaṁ svaṁ putramapaśyadgatacetanam.
अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः ।
लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत् ॥११॥
11. atha taṁ snāyupāśena baddhvā sarpamamarṣitaḥ ,
lubdhako'rjunako nāma gautamyāḥ samupānayat.
तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः ।
ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना ॥१२॥
12. tāṁ cābravīdayaṁ te sa putrahā pannagādhamaḥ ,
brūhi kṣipraṁ mahābhāge vadhyatāṁ kena hetunā.
अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा ।
न ह्ययं बालहा पापश्चिरं जीवितुमर्हति ॥१३॥
13. agnau prakṣipyatāmeṣa cchidyatāṁ khaṇḍaśo'pi vā ,
na hyayaṁ bālahā pāpaściraṁ jīvitumarhati.
गौतम्युवाच ।
विसृजैनमबुद्धिस्त्वं न वध्योऽर्जुनक त्वया ।
को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन् ॥१४॥
14. gautamyuvāca ,
visṛjainamabuddhistvaṁ na vadhyo'rjunaka tvayā ,
ko hyātmānaṁ guruṁ kuryātprāptavye sati cintayan.
प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः ।
मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ॥१५॥
15. plavante dharmalaghavo loke'mbhasi yathā plavāḥ ,
majjanti pāpaguravaḥ śastraṁ skannamivodake.
न चामृत्युर्भविता वै हतेऽस्मिन्को वात्ययः स्यादहतेऽस्मिञ्जनस्य ।
अस्योत्सर्गे प्राणयुक्तस्य जन्तोर्मृत्योर्लोकं को नु गच्छेदनन्तम् ॥१६॥
16. na cāmṛtyurbhavitā vai hate'smi;nko vātyayaḥ syādahate'smiñjanasya ,
asyotsarge prāṇayuktasya janto;rmṛtyorlokaṁ ko nu gacchedanantam.
लुब्धक उवाच ।
जानाम्येवं नेह गुणागुणज्ञाः सर्वे नियुक्ता गुरवो वै भवन्ति ।
स्वस्थस्यैते तूपदेशा भवन्ति तस्मात्क्षुद्रं सर्पमेनं हनिष्ये ॥१७॥
17. lubdhaka uvāca ,
jānāmyevaṁ neha guṇāguṇajñāḥ; sarve niyuktā guravo vai bhavanti ,
svasthasyaite tūpadeśā bhavanti; tasmātkṣudraṁ sarpamenaṁ haniṣye.
समीप्सन्तः कालयोगं त्यजन्ति सद्यः शुचं त्वर्थविदस्त्यजन्ति ।
श्रेयः क्षयः शोचतां नित्यशो हि तस्मात्त्याज्यं जहि शोकं हतेऽस्मिन् ॥१८॥
18. samīpsantaḥ kālayogaṁ tyajanti; sadyaḥ śucaṁ tvarthavidastyajanti ,
śreyaḥ kṣayaḥ śocatāṁ nityaśo hi; tasmāttyājyaṁ jahi śokaṁ hate'smin.
गौतम्युवाच ।
न चैवार्तिर्विद्यतेऽस्मद्विधानां धर्मारामः सततं सज्जनो हि ।
नित्यायस्तो बालजनो न चास्ति धर्मो ह्येष प्रभवाम्यस्य नाहम् ॥१९॥
19. gautamyuvāca ,
na caivārtirvidyate'smadvidhānāṁ; dharmārāmaḥ satataṁ sajjano hi ,
nityāyasto bālajano na cāsti; dharmo hyeṣa prabhavāmyasya nāham.
न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना ।
मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः ॥२०॥
20. na brāhmaṇānāṁ kopo'sti kutaḥ kopācca yātanā ,
mārdavātkṣamyatāṁ sādho mucyatāmeṣa pannagaḥ.
लुब्धक उवाच ।
हत्वा लाभः श्रेय एवाव्ययं स्यात्सद्यो लाभो बलवद्भिः प्रशस्तः ।
कालाल्लाभो यस्तु सद्यो भवेत हते श्रेयः कुत्सिते त्वीदृशे स्यात् ॥२१॥
21. lubdhaka uvāca ,
hatvā lābhaḥ śreya evāvyayaṁ syā;tsadyo lābho balavadbhiḥ praśastaḥ ,
kālāllābho yastu sadyo bhaveta; hate śreyaḥ kutsite tvīdṛśe syāt.
गौतम्युवाच ।
कार्थप्राप्तिर्गृह्य शत्रुं निहत्य का वा शान्तिः प्राप्य शत्रुं नमुक्त्वा ।
कस्मात्सौम्य भुजगे न क्षमेयं मोक्षं वा किं कारणं नास्य कुर्याम् ॥२२॥
22. gautamyuvāca ,
kārthaprāptirgṛhya śatruṁ nihatya; kā vā śāntiḥ prāpya śatruṁ namuktvā ,
kasmātsaumya bhujage na kṣameyaṁ; mokṣaṁ vā kiṁ kāraṇaṁ nāsya kuryām.
लुब्धक उवाच ।
अस्मादेकस्माद्बहवो रक्षितव्या नैको बहुभ्यो गौतमि रक्षितव्यः ।
कृतागसं धर्मविदस्त्यजन्ति सरीसृपं पापमिमं जहि त्वम् ॥२३॥
23. lubdhaka uvāca ,
asmādekasmādbahavo rakṣitavyā; naiko bahubhyo gautami rakṣitavyaḥ ,
kṛtāgasaṁ dharmavidastyajanti; sarīsṛpaṁ pāpamimaṁ jahi tvam.
गौतम्युवाच ।
नास्मिन्हते पन्नगे पुत्रको मे संप्राप्स्यते लुब्धक जीवितं वै ।
गुणं चान्यं नास्य वधे प्रपश्ये तस्मात्सर्पं लुब्धक मुञ्च जीवम् ॥२४॥
24. gautamyuvāca ,
nāsminhate pannage putrako me; saṁprāpsyate lubdhaka jīvitaṁ vai ,
guṇaṁ cānyaṁ nāsya vadhe prapaśye; tasmātsarpaṁ lubdhaka muñca jīvam.
लुब्धक उवाच ।
वृत्रं हत्वा देवराट्श्रेष्ठभाग्वै यज्ञं हत्वा भागमवाप चैव ।
शूली देवो देववृत्तं कुरु त्वं क्षिप्रं सर्पं जहि मा भूद्विशङ्का ॥२५॥
25. lubdhaka uvāca ,
vṛtraṁ hatvā devarāṭśreṣṭhabhāgvai; yajñaṁ hatvā bhāgamavāpa caiva ,
śūlī devo devavṛttaṁ kuru tvaṁ; kṣipraṁ sarpaṁ jahi mā bhūdviśaṅkā.
भीष्म उवाच ।
असकृत्प्रोच्यमानापि गौतमी भुजगं प्रति ।
लुब्धकेन महाभागा पापे नैवाकरोन्मतिम् ॥२६॥
26. bhīṣma uvāca ,
asakṛtprocyamānāpi gautamī bhujagaṁ prati ,
lubdhakena mahābhāgā pāpe naivākaronmatim.
ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः ।
उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः ॥२७॥
27. īṣaducchvasamānastu kṛcchrātsaṁstabhya pannagaḥ ,
utsasarja giraṁ mandāṁ mānuṣīṁ pāśapīḍitaḥ.
को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश ।
अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत् ॥२८॥
28. ko nvarjunaka doṣo'tra vidyate mama bāliśa ,
asvatantraṁ hi māṁ mṛtyurvivaśaṁ yadacūcudat.
तस्यायं वचनाद्दष्टो न कोपेन न काम्यया ।
तस्य तत्किल्बिषं लुब्ध विद्यते यदि किल्बिषम् ॥२९॥
29. tasyāyaṁ vacanāddaṣṭo na kopena na kāmyayā ,
tasya tatkilbiṣaṁ lubdha vidyate yadi kilbiṣam.
लुब्धक उवाच ।
यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम् ।
कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी ॥३०॥
30. lubdhaka uvāca ,
yadyanyavaśagenedaṁ kṛtaṁ te pannagāśubham ,
kāraṇaṁ vai tvamapyatra tasmāttvamapi kilbiṣī.
मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा ।
कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग ॥३१॥
31. mṛtpātrasya kriyāyāṁ hi daṇḍacakrādayo yathā ,
kāraṇatve prakalpyante tathā tvamapi pannaga.
किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग ।
आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजंगम ॥३२॥
32. kilbiṣī cāpi me vadhyaḥ kilbiṣī cāsi pannaga ,
ātmānaṁ kāraṇaṁ hyatra tvamākhyāsi bhujaṁgama.
सर्प उवाच ।
सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा ।
तथाहमपि तस्मान्मे नैष हेतुर्मतस्तव ॥३३॥
33. sarpa uvāca ,
sarva ete hyasvavaśā daṇḍacakrādayo yathā ,
tathāhamapi tasmānme naiṣa heturmatastava.
अथ वा मतमेतत्ते तेऽप्यन्योन्यप्रयोजकाः ।
कार्यकारणसंदेहो भवत्यन्योन्यचोदनात् ॥३४॥
34. atha vā matametatte te'pyanyonyaprayojakāḥ ,
kāryakāraṇasaṁdeho bhavatyanyonyacodanāt.
एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी ।
किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम् ॥३५॥
35. evaṁ sati na doṣo me nāsmi vadhyo na kilbiṣī ,
kilbiṣaṁ samavāye syānmanyase yadi kilbiṣam.
लुब्धक उवाच ।
कारणं यदि न स्याद्वै न कर्ता स्यास्त्वमप्युत ।
विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः ॥३६॥
36. lubdhaka uvāca ,
kāraṇaṁ yadi na syādvai na kartā syāstvamapyuta ,
vināśe kāraṇaṁ tvaṁ ca tasmādvadhyo'si me mataḥ.
असत्यपि कृते कार्ये नेह पन्नग लिप्यते ।
तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे ॥३७॥
37. asatyapi kṛte kārye neha pannaga lipyate ,
tasmānnātraiva hetuḥ syādvadhyaḥ kiṁ bahu bhāṣase.
सर्प उवाच ।
कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे ।
तस्मात्त्वमस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः ॥३८॥
38. sarpa uvāca ,
kāryābhāve kriyā na syātsatyasatyapi kāraṇe ,
tasmāttvamasminhetau me vācyo heturviśeṣataḥ.
यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः ।
अन्यः प्रयोगे स्यादत्र किल्बिषी जन्तुनाशने ॥३९॥
39. yadyahaṁ kāraṇatvena mato lubdhaka tattvataḥ ,
anyaḥ prayoge syādatra kilbiṣī jantunāśane.
लुब्धक उवाच ।
वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत् ।
भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम ॥४०॥
40. lubdhaka uvāca ,
vadhyastvaṁ mama durbuddhe bālaghātī nṛśaṁsakṛt ,
bhāṣase kiṁ bahu punarvadhyaḥ sanpannagādhama.
सर्प उवाच ।
यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः ।
न फलं प्राप्नुवन्त्यत्र परलोके तथा ह्यहम् ॥४१॥
41. sarpa uvāca ,
yathā havīṁṣi juhvānā makhe vai lubdhakartvijaḥ ,
na phalaṁ prāpnuvantyatra paraloke tathā hyaham.
भीष्म उवाच ।
तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते ।
आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम् ॥४२॥
42. bhīṣma uvāca ,
tathā bruvati tasmiṁstu pannage mṛtyucodite ,
ājagāma tato mṛtyuḥ pannagaṁ cābravīdidam.
कालेनाहं प्रणुदितः पन्नग त्वामचूचुदम् ।
विनाशहेतुर्नास्य त्वमहं वा प्राणिनः शिशोः ॥४३॥
43. kālenāhaṁ praṇuditaḥ pannaga tvāmacūcudam ,
vināśaheturnāsya tvamahaṁ vā prāṇinaḥ śiśoḥ.
यथा वायुर्जलधरान्विकर्षति ततस्ततः ।
तद्वज्जलदवत्सर्प कालस्याहं वशानुगः ॥४४॥
44. yathā vāyurjaladharānvikarṣati tatastataḥ ,
tadvajjaladavatsarpa kālasyāhaṁ vaśānugaḥ.
सात्त्विका राजसाश्चैव तामसा ये च केचन ।
भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु ॥४५॥
45. sāttvikā rājasāścaiva tāmasā ye ca kecana ,
bhāvāḥ kālātmakāḥ sarve pravartante hi jantuṣu.
जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि ।
सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत् ॥४६॥
46. jaṅgamāḥ sthāvarāścaiva divi vā yadi vā bhuvi ,
sarve kālātmakāḥ sarpa kālātmakamidaṁ jagat.
प्रवृत्तयश्च या लोके तथैव च निवृत्तयः ।
तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम् ॥४७॥
47. pravṛttayaśca yā loke tathaiva ca nivṛttayaḥ ,
tāsāṁ vikṛtayo yāśca sarvaṁ kālātmakaṁ smṛtam.
आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः ।
अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा ॥४८॥
48. ādityaścandramā viṣṇurāpo vāyuḥ śatakratuḥ ,
agniḥ khaṁ pṛthivī mitra oṣadhyo vasavastathā.
सरितः सागराश्चैव भावाभावौ च पन्नग ।
सर्वे कालेन सृज्यन्ते ह्रियन्ते च तथा पुनः ॥४९॥
49. saritaḥ sāgarāścaiva bhāvābhāvau ca pannaga ,
sarve kālena sṛjyante hriyante ca tathā punaḥ.
एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे ।
अथ चैवंगते दोषो मयि त्वमपि दोषवान् ॥५०॥
50. evaṁ jñātvā kathaṁ māṁ tvaṁ sadoṣaṁ sarpa manyase ,
atha caivaṁgate doṣo mayi tvamapi doṣavān.
सर्प उवाच ।
निर्दोषं दोषवन्तं वा न त्वा मृत्यो ब्रवीम्यहम् ।
त्वयाहं चोदित इति ब्रवीम्येतावदेव तु ॥५१॥
51. sarpa uvāca ,
nirdoṣaṁ doṣavantaṁ vā na tvā mṛtyo bravīmyaham ,
tvayāhaṁ codita iti bravīmyetāvadeva tu.
यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते ।
दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम् ॥५२॥
52. yadi kāle tu doṣo'sti yadi tatrāpi neṣyate ,
doṣo naiva parīkṣyo me na hyatrādhikṛtā vayam.
निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा ।
मृत्यो विदोषः स्यामेव यथा तन्मे प्रयोजनम् ॥५३॥
53. nirmokṣastvasya doṣasya mayā kāryo yathā tathā ,
mṛtyo vidoṣaḥ syāmeva yathā tanme prayojanam.
भीष्म उवाच ।
सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम् ।
नानागसं मां पाशेन संतापयितुमर्हसि ॥५४॥
54. bhīṣma uvāca ,
sarpo'thārjunakaṁ prāha śrutaṁ te mṛtyubhāṣitam ,
nānāgasaṁ māṁ pāśena saṁtāpayitumarhasi.
लुब्धक उवाच ।
मृत्योः श्रुतं मे वचनं तव चैव भुजंगम ।
नैव तावद्विदोषत्वं भवति त्वयि पन्नग ॥५५॥
55. lubdhaka uvāca ,
mṛtyoḥ śrutaṁ me vacanaṁ tava caiva bhujaṁgama ,
naiva tāvadvidoṣatvaṁ bhavati tvayi pannaga.
मृत्युस्त्वं चैव हेतुर्हि जन्तोरस्य विनाशने ।
उभयं कारणं मन्ये न कारणमकारणम् ॥५६॥
56. mṛtyustvaṁ caiva heturhi jantorasya vināśane ,
ubhayaṁ kāraṇaṁ manye na kāraṇamakāraṇam.
धिङ्मृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम् ।
त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम् ॥५७॥
57. dhiṅmṛtyuṁ ca durātmānaṁ krūraṁ duḥkhakaraṁ satām ,
tvāṁ caivāhaṁ vadhiṣyāmi pāpaṁ pāpasya kāraṇam.
मृत्युरुवाच ।
विवशौ कालवशगावावां तद्दिष्टकारिणौ ।
नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि ॥५८॥
58. mṛtyuruvāca ,
vivaśau kālavaśagāvāvāṁ taddiṣṭakāriṇau ,
nāvāṁ doṣeṇa gantavyau yadi samyakprapaśyasi.
लुब्धक उवाच ।
युवामुभौ कालवशौ यदि वै मृत्युपन्नगौ ।
हर्षक्रोधौ कथं स्यातामेतदिच्छामि वेदितुम् ॥५९॥
59. lubdhaka uvāca ,
yuvāmubhau kālavaśau yadi vai mṛtyupannagau ,
harṣakrodhau kathaṁ syātāmetadicchāmi veditum.
मृत्युरुवाच ।
याः काश्चिदिह चेष्टाः स्युः सर्वाः कालप्रचोदिताः ।
पूर्वमेवैतदुक्तं हि मया लुब्धक कालतः ॥६०॥
60. mṛtyuruvāca ,
yāḥ kāścidiha ceṣṭāḥ syuḥ sarvāḥ kālapracoditāḥ ,
pūrvamevaitaduktaṁ hi mayā lubdhaka kālataḥ.
तस्मादुभौ कालवशावावां तद्दिष्टकारिणौ ।
नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हिचित् ॥६१॥
61. tasmādubhau kālavaśāvāvāṁ taddiṣṭakāriṇau ,
nāvāṁ doṣeṇa gantavyau tvayā lubdhaka karhicit.
भीष्म उवाच ।
अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये ।
अब्रवीत्पन्नगं मृत्युं लुब्धमर्जुनकं च तम् ॥६२॥
62. bhīṣma uvāca ,
athopagamya kālastu tasmindharmārthasaṁśaye ,
abravītpannagaṁ mṛtyuṁ lubdhamarjunakaṁ ca tam.
काल उवाच ।
नैवाहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः ।
किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः ॥६३॥
63. kāla uvāca ,
naivāhaṁ nāpyayaṁ mṛtyurnāyaṁ lubdhaka pannagaḥ ,
kilbiṣī jantumaraṇe na vayaṁ hi prayojakāḥ.
अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम् ।
प्रणाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा ॥६४॥
64. akarodyadayaṁ karma tanno'rjunaka codakam ,
praṇāśaheturnānyo'sya vadhyate'yaṁ svakarmaṇā.
यदनेन कृतं कर्म तेनायं निधनं गतः ।
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ॥६५॥
65. yadanena kṛtaṁ karma tenāyaṁ nidhanaṁ gataḥ ,
vināśahetuḥ karmāsya sarve karmavaśā vayam.
कर्मदायादवाँल्लोकः कर्मसंबन्धलक्षणः ।
कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम् ॥६६॥
66. karmadāyādavāँllokaḥ karmasaṁbandhalakṣaṇaḥ ,
karmāṇi codayantīha yathānyonyaṁ tathā vayam.
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति ।
एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥६७॥
67. yathā mṛtpiṇḍataḥ kartā kurute yadyadicchati ,
evamātmakṛtaṁ karma mānavaḥ pratipadyate.
यथा छायातपौ नित्यं सुसंबद्धौ निरन्तरम् ।
तथा कर्म च कर्ता च संबद्धावात्मकर्मभिः ॥६८॥
68. yathā chāyātapau nityaṁ susaṁbaddhau nirantaram ,
tathā karma ca kartā ca saṁbaddhāvātmakarmabhiḥ.
एवं नाहं न वै मृत्युर्न सर्पो न तथा भवान् ।
न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम् ॥६९॥
69. evaṁ nāhaṁ na vai mṛtyurna sarpo na tathā bhavān ,
na ceyaṁ brāhmaṇī vṛddhā śiśurevātra kāraṇam.
तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप ।
स्वकर्मप्रत्ययाँल्लोकान्मत्वार्जुनकमब्रवीत् ॥७०॥
70. tasmiṁstathā bruvāṇe tu brāhmaṇī gautamī nṛpa ,
svakarmapratyayāँllokānmatvārjunakamabravīt.
नैव कालो न भुजगो न मृत्युरिह कारणम् ।
स्वकर्मभिरयं बालः कालेन निधनं गतः ॥७१॥
71. naiva kālo na bhujago na mṛtyuriha kāraṇam ,
svakarmabhirayaṁ bālaḥ kālena nidhanaṁ gataḥ.
मया च तत्कृतं कर्म येनायं मे मृतः सुतः ।
यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम् ॥७२॥
72. mayā ca tatkṛtaṁ karma yenāyaṁ me mṛtaḥ sutaḥ ,
yātu kālastathā mṛtyurmuñcārjunaka pannagam.
भीष्म उवाच ।
ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः ।
अभूद्विरोषोऽर्जुनको विशोका चैव गौतमी ॥७३॥
73. bhīṣma uvāca ,
tato yathāgataṁ jagmurmṛtyuḥ kālo'tha pannagaḥ ,
abhūdviroṣo'rjunako viśokā caiva gautamī.
एतच्छ्रुत्वा शमं गच्छ मा भूश्चिन्तापरो नृप ।
स्वकर्मप्रत्ययाँल्लोकांस्त्रीन्विद्धि मनुजर्षभ ॥७४॥
74. etacchrutvā śamaṁ gaccha mā bhūścintāparo nṛpa ,
svakarmapratyayāँllokāṁstrīnviddhi manujarṣabha.
न तु त्वया कृतं पार्थ नापि दुर्योधनेन वै ।
कालेन तत्कृतं विद्धि विहता येन पार्थिवाः ॥७५॥
75. na tu tvayā kṛtaṁ pārtha nāpi duryodhanena vai ,
kālena tatkṛtaṁ viddhi vihatā yena pārthivāḥ.
वैशंपायन उवाच ।
इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः ।
युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित् ॥७६॥
76. vaiśaṁpāyana uvāca ,
ityetadvacanaṁ śrutvā babhūva vigatajvaraḥ ,
yudhiṣṭhiro mahātejāḥ papracchedaṁ ca dharmavit.