Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-33

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह ।
किं कुर्वन्कर्म नृपतिरुभौ लोकौ समश्नुते ॥१॥
1. yudhiṣṭhira uvāca ,
kiṁ rājñaḥ sarvakṛtyānāṁ garīyaḥ syātpitāmaha ,
kiṁ kurvankarma nṛpatirubhau lokau samaśnute.
भीष्म उवाच ।
एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत ।
ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छता ।
श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत् ॥२॥
2. bhīṣma uvāca ,
etadrājñaḥ kṛtyatamamabhiṣiktasya bhārata ,
brāhmaṇānāmanuṣṭhānamatyantaṁ sukhamicchatā ,
śrotriyānbrāhmaṇānvṛddhānnityamevābhipūjayet.
पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् ।
सान्त्वेन भोगदानेन नमस्कारैस्तथार्चयेत् ॥३॥
3. paurajānapadāṁścāpi brāhmaṇāṁśca bahuśrutān ,
sāntvena bhogadānena namaskāraistathārcayet.
एतत्कृत्यतमं राज्ञो नित्यमेवेति लक्षयेत् ।
यथात्मानं यथा पुत्रांस्तथैतान्परिपालयेत् ॥४॥
4. etatkṛtyatamaṁ rājño nityameveti lakṣayet ,
yathātmānaṁ yathā putrāṁstathaitānparipālayet.
ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत् ।
तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते ॥५॥
5. ye cāpyeṣāṁ pūjyatamāstāndṛḍhaṁ pratipūjayet ,
teṣu śānteṣu tadrāṣṭraṁ sarvameva virājate.
ते पूज्यास्ते नमस्कार्यास्ते रक्ष्याः पितरो यथा ।
तेष्वेव यात्रा लोकस्य भूतानामिव वासवे ॥६॥
6. te pūjyāste namaskāryāste rakṣyāḥ pitaro yathā ,
teṣveva yātrā lokasya bhūtānāmiva vāsave.
अभिचारैरुपायैश्च दहेयुरपि तेजसा ।
निःशेषं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः ॥७॥
7. abhicārairupāyaiśca daheyurapi tejasā ,
niḥśeṣaṁ kupitāḥ kuryurugrāḥ satyaparākramāḥ.
नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः ।
कुपिताः समुदीक्षन्ते दावेष्वग्निशिखा इव ॥८॥
8. nāntameṣāṁ prapaśyāmi na diśaścāpyapāvṛtāḥ ,
kupitāḥ samudīkṣante dāveṣvagniśikhā iva.
विद्यन्तेषां साहसिका गुणास्तेषामतीव हि ।
कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे ॥९॥
9. vidyanteṣāṁ sāhasikā guṇāsteṣāmatīva hi ,
kūpā iva tṛṇacchannā viśuddhā dyaurivāpare.
प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे ।
सन्ति चैषामतिशठास्तथान्येऽतितपस्विनः ॥१०॥
10. prasahyakāriṇaḥ kecitkārpāsamṛdavo'pare ,
santi caiṣāmatiśaṭhāstathānye'titapasvinaḥ.
कृषिगोरक्ष्यमप्यन्ये भैक्षमन्येऽप्यनुष्ठिताः ।
चोराश्चान्येऽनृताश्चान्ये तथान्ये नटनर्तकाः ॥११॥
11. kṛṣigorakṣyamapyanye bhaikṣamanye'pyanuṣṭhitāḥ ,
corāścānye'nṛtāścānye tathānye naṭanartakāḥ.
सर्वकर्मसु दृश्यन्ते प्रशान्तेष्वितरेषु च ।
विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ ॥१२॥
12. sarvakarmasu dṛśyante praśānteṣvitareṣu ca ,
vividhācārayuktāśca brāhmaṇā bharatarṣabha.
नानाकर्मसु युक्तानां बहुकर्मोपजीविनाम् ।
धर्मज्ञानां सतां तेषां नित्यमेवानुकीर्तयेत् ॥१३॥
13. nānākarmasu yuktānāṁ bahukarmopajīvinām ,
dharmajñānāṁ satāṁ teṣāṁ nityamevānukīrtayet.
पितॄणां देवतानां च मनुष्योरगरक्षसाम् ।
पुरोहिता महाभागा ब्राह्मणा वै नराधिप ॥१४॥
14. pitṝṇāṁ devatānāṁ ca manuṣyoragarakṣasām ,
purohitā mahābhāgā brāhmaṇā vai narādhipa.
नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः ।
नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः ॥१५॥
15. naite devairna pitṛbhirna gandharvairna rākṣasaiḥ ,
nāsurairna piśācaiśca śakyā jetuṁ dvijātayaḥ.
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् ।
यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत् ॥१६॥
16. adaivaṁ daivataṁ kuryurdaivataṁ cāpyadaivatam ,
yamiccheyuḥ sa rājā syādyaṁ dviṣyuḥ sa parābhavet.
परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः ।
निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरावराः ।
परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः ॥१७॥
17. parivādaṁ ca ye kuryurbrāhmaṇānāmacetasaḥ ,
nindāpraśaṁsākuśalāḥ kīrtyakīrtiparāvarāḥ ,
parikupyanti te rājansatataṁ dviṣatāṁ dvijāḥ.
ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते ।
ब्राह्मणैर्यः पराक्रुष्टः पराभूयात्क्षणाद्धि सः ॥१८॥
18. brāhmaṇā yaṁ praśaṁsanti puruṣaḥ sa pravardhate ,
brāhmaṇairyaḥ parākruṣṭaḥ parābhūyātkṣaṇāddhi saḥ.
शका यवनकाम्बोजास्तास्ताः क्षत्रियजातयः ।
वृषलत्वं परिगता ब्राह्मणानामदर्शनात् ॥१९॥
19. śakā yavanakāmbojāstāstāḥ kṣatriyajātayaḥ ,
vṛṣalatvaṁ parigatā brāhmaṇānāmadarśanāt.
द्रमिळाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः ।
कौलाः सर्पा माहिषकास्तास्ताः क्षत्रियजातयः ॥२०॥
20. dramiळāśca kaliṅgāśca pulindāścāpyuśīnarāḥ ,
kaulāḥ sarpā māhiṣakāstāstāḥ kṣatriyajātayaḥ.
वृषलत्वं परिगता ब्राह्मणानामदर्शनात् ।
श्रेयान्पराजयस्तेभ्यो न जयो जयतां वर ॥२१॥
21. vṛṣalatvaṁ parigatā brāhmaṇānāmadarśanāt ,
śreyānparājayastebhyo na jayo jayatāṁ vara.
यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम् ।
ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः ॥२२॥
22. yastu sarvamidaṁ hanyādbrāhmaṇaṁ ca na tatsamam ,
brahmavadhyā mahāndoṣa ityāhuḥ paramarṣayaḥ.
परिवादो द्विजातीनां न श्रोतव्यः कथंचन ।
आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा ॥२३॥
23. parivādo dvijātīnāṁ na śrotavyaḥ kathaṁcana ,
āsītādhomukhastūṣṇīṁ samutthāya vrajeta vā.
न स जातो जनिष्यो वा पृथिव्यामिह कश्चन ।
यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत् ॥२४॥
24. na sa jāto janiṣyo vā pṛthivyāmiha kaścana ,
yo brāhmaṇavirodhena sukhaṁ jīvitumutsahet.
दुर्ग्रहो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी ।
दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि ॥२५॥
25. durgraho muṣṭinā vāyurduḥsparśaḥ pāṇinā śaśī ,
durdharā pṛthivī mūrdhnā durjayā brāhmaṇā bhuvi.