Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महानिर्वाण-तन्त्रम्       mahānirvāṇa-tantram - chapter-10

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
कुशण्डिकाविधिर्नाथ संस्काराश्च दश श्रुताः ।
वृद्धिश्राद्धविधिं देव कृपया मे प्रकाशय ॥१॥
1. kuśaṇḍikāvidhirnātha saṁskārāśca daśa śrutāḥ ,
vṛddhiśrāddhavidhiṁ deva kṛpayā me prakāśaya.
कस्मिन् कस्मिंश्च संस्कारे प्रतिष्ठासु च कास्वपि ।
कुशण्डिकाविधानञ्च वृद्धिश्राद्धञ्च शङ्कर ॥२॥
2. kasmin kasmiṁśca saṁskāre pratiṣṭhāsu ca kāsvapi ,
kuśaṇḍikāvidhānañca vṛddhiśrāddhañca śaṅkara.
कर्तव्यं वा न कर्तव्यं तन्ममाचक्ष्व तत्वतः ।
मत्प्रीतये महेशान जीवानां मङ्गलाय च ॥३॥
3. kartavyaṁ vā na kartavyaṁ tanmamācakṣva tatvataḥ ,
matprītaye maheśāna jīvānāṁ maṅgalāya ca.
जीवसेकाद्विवाहान्तदशसंस्कारकर्मसु ।
यत्र यद्विहितं भद्रे सविशेषं प्रकीर्तितम् ॥४॥
4. jīvasekādvivāhāntadaśasaṁskārakarmasu ,
yatra yadvihitaṁ bhadre saviśeṣaṁ prakīrtitam.
तदेव कार्यं मनुजैस्तत्वज्ञैर्हितमिच्चुभिः ।
अन्यत्र यद्विधातव्यं तच्चृणुष्व वरानने ॥५॥
5. tadeva kāryaṁ manujaistatvajñairhitamiccubhiḥ ,
anyatra yadvidhātavyaṁ taccṛṇuṣva varānane.
वापीकूपतडागानां देवप्रतिकृतेस्तथा ।
गृहारामव्रतादीनां प्रतिष्ठाकर्मसु प्रिये ॥६॥
6. vāpīkūpataḍāgānāṁ devapratikṛtestathā ,
gṛhārāmavratādīnāṁ pratiṣṭhākarmasu priye.
सर्वत्र पञ्चदेवानां मात्éणामपि पूजनम् ।
वसोर्धारा च कर्तव्या वृद्धिश्राद्धकुशण्डिके ॥७॥
7. sarvatra pañcadevānāṁ mātéṇāmapi pūjanam ,
vasordhārā ca kartavyā vṛddhiśrāddhakuśaṇḍike.
स्त्रीणां विधेयकृत्येषु वृद्धिश्राद्धं न विद्यते ।
देवतापितृतृप्त्यर्थं भोज्यमेकं समुत्सृजेत् ॥८॥
8. strīṇāṁ vidheyakṛtyeṣu vṛddhiśrāddhaṁ na vidyate ,
devatāpitṛtṛptyarthaṁ bhojyamekaṁ samutsṛjet.
देवमात्रार्चनं तत्र वसुधारा कुशण्डिका ।
भक्त्या स्त्रिया विधातव्या ऋत्विजा कमलानने ॥९॥
9. devamātrārcanaṁ tatra vasudhārā kuśaṇḍikā ,
bhaktyā striyā vidhātavyā ṛtvijā kamalānane.
पुत्रश्च पौत्रो दौहित्रो ज्ञातयो भगिनीसुतः ।
जामातर्त्विग्दैवपित्रे शस्ताः प्रतिनिधौ शिवे ॥१०॥
10. putraśca pautro dauhitro jñātayo bhaginīsutaḥ ,
jāmātartvigdaivapitre śastāḥ pratinidhau śive.
वृद्धिश्राद्धं प्रवक्ष्यामि
तत्त्वतः शृणु कालिके ॥११॥
11. vṛddhiśrāddhaṁ pravakṣyāmi
tattvataḥ śṛṇu kālike.
कृत्वा नित्योदितं कर्म मानवः सुसमाहितः ।
गङ्गां यज्ञेश्वरं विष्णुं वास्त्वीशं भूपतिं यजेत् ॥१२॥
12. kṛtvā nityoditaṁ karma mānavaḥ susamāhitaḥ ,
gaṅgāṁ yajñeśvaraṁ viṣṇuṁ vāstvīśaṁ bhūpatiṁ yajet.
ततो दर्भमयान् विप्रान् कल्पयेत् प्रणवं स्मरन् ।
पञ्चभिर्नवभिर्वाऽपि सप्तभिस्त्रिभिरेव वा ॥१३॥
13. tato darbhamayān viprān kalpayet praṇavaṁ smaran ,
pañcabhirnavabhirvā'pi saptabhistribhireva vā.
निर्गर्भैश्च कुशैः साग्रैर्दक्षिणावर्तयोगतः ।
सार्द्धद्वयावर्तनेन ऊर्द्ध्वाग्रैरचयेद् द्विजान् ॥१४॥
14. nirgarbhaiśca kuśaiḥ sāgrairdakṣiṇāvartayogataḥ ,
sārddhadvayāvartanena ūrddhvāgrairacayed dvijān.
वृद्धिश्राद्धे पार्वणादौ षड्विप्राः परिकीर्तिताः ।
एकोद्दिष्टे तु कथित एक एव द्विजः शिवे ॥१५॥
15. vṛddhiśrāddhe pārvaṇādau ṣaḍviprāḥ parikīrtitāḥ ,
ekoddiṣṭe tu kathita eka eva dvijaḥ śive.
ततो विप्रान् कुशमयानेकस्मिन्नेव भाजने ।
कौबेराभिमुखान् कृत्वा स्नापयेदमुना सुधीः ॥१६॥
16. tato viprān kuśamayānekasminneva bhājane ,
kauberābhimukhān kṛtvā snāpayedamunā sudhīḥ.
ह्री/ शन्नो देवीरभीष्टये शन्नो भवन्तु पीतये ।
शंयोरभिस्रवन्तु नः ॥१७॥
17. hrī/ śanno devīrabhīṣṭaye śanno bhavantu pītaye ,
śaṁyorabhisravantu naḥ.
ततस्तु गन्धपुष्पाभ्यां
पूजयेत् कुशभूसुरान् ॥१८॥
18. tatastu gandhapuṣpābhyāṁ
pūjayet kuśabhūsurān.
पश्चिमे दक्षिणे चैव युग्मयुग्मक्रमात् सुधीः ।
षट्पात्राणि सदर्भाणि स्थापयेत्तुलसीतिलैः ॥१९॥
19. paścime dakṣiṇe caiva yugmayugmakramāt sudhīḥ ,
ṣaṭpātrāṇi sadarbhāṇi sthāpayettulasītilaiḥ.
पात्रद्वये पश्चिमायां याम्ये पात्रचतुष्टये ।
पूर्वास्यावुत्तरमुखान् षड्विप्रानुपवेशयेत् ॥२०॥
20. pātradvaye paścimāyāṁ yāmye pātracatuṣṭaye ,
pūrvāsyāvuttaramukhān ṣaḍviprānupaveśayet.
दैवपक्षं पश्चिमायां दक्षिणे वामयाम्ययोः ।
पितुर्मातामहस्यापि पक्षौ द्वौ विद्धि पार्वति ॥२१॥
21. daivapakṣaṁ paścimāyāṁ dakṣiṇe vāmayāmyayoḥ ,
piturmātāmahasyāpi pakṣau dvau viddhi pārvati.
नान्दीमुखाश्च पितरो नान्दीमुख्यश्च मातरः ।
मातामहादयोऽप्येवं मातामह्यादयोऽपि च ।
श्राद्धे नाम्न्याभ्युदयिके समुल्लेख्या वरानने ॥२२॥
22. nāndīmukhāśca pitaro nāndīmukhyaśca mātaraḥ ,
mātāmahādayo'pyevaṁ mātāmahyādayo'pi ca ,
śrāddhe nāmnyābhyudayike samullekhyā varānane.
दक्षावर्तेनोत्तरास्यो दैवं कर्म समाचरेत् ।
वामावर्तेन दक्षारयः पितृकर्माणि साधयेत् ॥२३॥
23. dakṣāvartenottarāsyo daivaṁ karma samācaret ,
vāmāvartena dakṣārayaḥ pitṛkarmāṇi sādhayet.
सर्वं कर्म प्रकुर्वीत दैवादिक्रमतः शिवे ।
लङ्घनान्मातृमात्éणां श्राद्धं तद्विफलं भवेत् ॥२४॥
24. sarvaṁ karma prakurvīta daivādikramataḥ śive ,
laṅghanānmātṛmātéṇāṁ śrāddhaṁ tadviphalaṁ bhavet.
कौबेराभिमुखोऽनुज्ञावाक्यं दैवे प्रकल्पयेत् ।
याम्यास्यः कल्पयेद्वाक्यं पित्र्ये मातामहेऽपि च ।
तत्रादौ दैवपक्षे तु वाक्यं शृणु शुचिस्मिते ॥२५॥
25. kauberābhimukho'nujñāvākyaṁ daive prakalpayet ,
yāmyāsyaḥ kalpayedvākyaṁ pitrye mātāmahe'pi ca ,
tatrādau daivapakṣe tu vākyaṁ śṛṇu śucismite.
कालादीनि निमित्तानि समुल्लिख्य ततः परम् ।
तत्तत्कर्माभ्युदयार्थमुक्त्वा साधकसत्तमः ॥२६॥
26. kālādīni nimittāni samullikhya tataḥ param ,
tattatkarmābhyudayārthamuktvā sādhakasattamaḥ.
पित्रादीनां त्रयाणां तु मात्रादीनां तथैव च ।
मातामहानां च मातामह्यादीनामपि प्रिये ॥२७॥
27. pitrādīnāṁ trayāṇāṁ tu mātrādīnāṁ tathaiva ca ,
mātāmahānāṁ ca mātāmahyādīnāmapi priye.
ष.
ष्ठ्यन्तं कीर्तयेन्नाम गोत्रोच्चारणपूर्वकम् ।
विश्वेषाञ्चैव देवानां श्राद्धं पदमुदीरयेत् ॥२८॥
28. ṣa.
ṣṭhyantaṁ kīrtayennāma gotroccāraṇapūrvakam ,
viśveṣāñcaiva devānāṁ śrāddhaṁ padamudīrayet.
कुशनिर्मितयोः पश्चात् विप्रयोरहमित्यपि ।
करिष्ये परमेशानीत्यनुज्ञावाक्यमीरितम् ॥२९॥
29. kuśanirmitayoḥ paścāt viprayorahamityapi ,
kariṣye parameśānītyanujñāvākyamīritam.
विश्वान् देवान् परित्यज्य पितृपक्षे तु पार्वति ।
तथा मातामहस्यापि पक्षेऽनुज्ञा प्रकीर्तिता ॥३०॥
30. viśvān devān parityajya pitṛpakṣe tu pārvati ,
tathā mātāmahasyāpi pakṣe'nujñā prakīrtitā.
ततो जपेद्ब्रह्मविद्यां
गायत्रीं दशधा शिवे ॥३१॥
31. tato japedbrahmavidyāṁ
gāyatrīṁ daśadhā śive.
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमोऽस्तु पुष्ट्यै स्वाहायै नित्यमेव भवन्त्विति ॥३२॥
32. devatābhyaḥ pitṛbhyaśca mahāyogibhya eva ca ,
namo'stu puṣṭyai svāhāyai nityameva bhavantviti.
पठित्वैनं त्रिधा हस्ते जलमादाय सत्तमः ।
व/ हू/ फडिति मन्त्रेण श्राद्धद्रव्याणि शोधयेत् ॥३३॥
33. paṭhitvainaṁ tridhā haste jalamādāya sattamaḥ ,
va/ hū/ phaḍiti mantreṇa śrāddhadravyāṇi śodhayet.
आग्नेय्यां पात्रमेकन्तु संस्थाप्य कुलनायिके ।
रक्षोघ्नममृतं प्रोच्य यज्ञरक्षां कुरुष्व मे ।
इत्युक्त्वा भाजने तस्मिंस्तुलसीदलसंयुतम् ॥३४॥
34. āgneyyāṁ pātramekantu saṁsthāpya kulanāyike ,
rakṣoghnamamṛtaṁ procya yajñarakṣāṁ kuruṣva me ,
ityuktvā bhājane tasmiṁstulasīdalasaṁyutam.
निधाय सलिलं देवि देवादिक्रमतः सुधीः ।
विप्रेभ्यो जलगण्डूषं दत्वा दद्यात् कुशासनम् ॥३५॥
35. nidhāya salilaṁ devi devādikramataḥ sudhīḥ ,
viprebhyo jalagaṇḍūṣaṁ datvā dadyāt kuśāsanam.
तत आवाहयेद्विद्वान् विश्वान् देवान् पित्éंस्तथा ।
मात्éर्मातामहांश्चापि तथा मातामहीः शिवे ॥३६॥
36. tata āvāhayedvidvān viśvān devān pitéṁstathā ,
mātérmātāmahāṁścāpi tathā mātāmahīḥ śive.
आवाह्य पूजयेदादौ विश्वान् देवांस्ततो यजेत् ।
पितृत्रयं तथा मातृत्रयं मातामहत्रयम् ॥३७॥
37. āvāhya pūjayedādau viśvān devāṁstato yajet ,
pitṛtrayaṁ tathā mātṛtrayaṁ mātāmahatrayam.
मातामहीत्रयं चापि पाद्यार्घ्याचमनादिभिः ।
धूपैर्दीपैश्च वासोभिः पूजयित्वा वरानने ।
पात्राणां पातनप्रश्नं कुर्याद्दैवक्रमात् शिवे ॥३८॥
38. mātāmahītrayaṁ cāpi pādyārghyācamanādibhiḥ ,
dhūpairdīpaiśca vāsobhiḥ pūjayitvā varānane ,
pātrāṇāṁ pātanapraśnaṁ kuryāddaivakramāt śive.
मण्डलं रचयेदेकं मायया चतुरस्रकम् ।
द्वे द्वे च मण्डले कुर्यात् तद्वत्पक्षद्वयोरपि ॥३९॥
39. maṇḍalaṁ racayedekaṁ māyayā caturasrakam ,
dve dve ca maṇḍale kuryāt tadvatpakṣadvayorapi.
वारुणप्रोक्षितेष्वेषु पात्राण्यासाद्य साधकः ।
तेन क्षालितपात्रेषु सर्वोपकरणैः सह ।
पानार्थपाथसान्नानि क्रमेण परिवेशयेत् ॥४०॥
40. vāruṇaprokṣiteṣveṣu pātrāṇyāsādya sādhakaḥ ,
tena kṣālitapātreṣu sarvopakaraṇaiḥ saha ,
pānārthapāthasānnāni krameṇa pariveśayet.
ततो मधुयवान् दत्वा ह्रा/ ह्रू/ फडिति मन्त्रकैः ।
संप्रोक्ष्यान्नानि सर्वाणि विश्वान् देवांस्तथा पित्éन् ॥४१॥
41. tato madhuyavān datvā hrā/ hrū/ phaḍiti mantrakaiḥ ,
saṁprokṣyānnāni sarvāṇi viśvān devāṁstathā pitén.
मात्éर्मातामहान् मातामहीरुल्लिख्य तत्त्ववित् ।
निवेद्य देवीं गायत्रीं देवताभ्यस्त्रिधा पठेत् ॥४२॥
42. mātérmātāmahān mātāmahīrullikhya tattvavit ,
nivedya devīṁ gāyatrīṁ devatābhyastridhā paṭhet.
शेषान्नपिण्डयोः प्रश्नौ
कुर्यादाद्ये ततः परम् ॥४३॥
43. śeṣānnapiṇḍayoḥ praśnau
kuryādādye tataḥ param.
दत्तशेषैरक्षताद्यैर्मालूरफलसन्निभान् ।
द्विजात् प्राप्तोत्तरः पिण्डान् रचयेद्द्वादश प्रिये ॥४४॥
44. dattaśeṣairakṣatādyairmālūraphalasannibhān ,
dvijāt prāptottaraḥ piṇḍān racayeddvādaśa priye.
अन्यं तु कल्पयेदेकं पिण्डं तत्सममम्बिके ।
आस्तरेन्नैरृते दर्भान् मण्डले यवसंयुतान् ॥४५॥
45. anyaṁ tu kalpayedekaṁ piṇḍaṁ tatsamamambike ,
āstarennairṛte darbhān maṇḍale yavasaṁyutān.
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः ।
अग्निदग्धाश्च ये केऽपि व्यालव्याघ्रहताश्च ये ॥४६॥
46. ye me kule luptapiṇḍāḥ putradāravivarjitāḥ ,
agnidagdhāśca ye ke'pi vyālavyāghrahatāśca ye.
ये बान्धवाबान्धवा वा येऽन्यजन्मनि बान्धवाः ।
मद्दत्तपिण्डतोयाभ्यां ते यान्तु तृप्तिमक्षयाम् ॥४७॥
47. ye bāndhavābāndhavā vā ye'nyajanmani bāndhavāḥ ,
maddattapiṇḍatoyābhyāṁ te yāntu tṛptimakṣayām.
दत्त्वा पिण्डमपिण्डेभ्यो मन्त्राभ्यां सुरवन्दिते ।
प्रक्षाल्य हस्तावाचान्तः सावित्रीं प्रजपंस्ततः ।
देवताभ्यस्त्रिधा जप्त्वा मण्डलानि प्रकल्पयेत् ॥४८॥
48. dattvā piṇḍamapiṇḍebhyo mantrābhyāṁ suravandite ,
prakṣālya hastāvācāntaḥ sāvitrīṁ prajapaṁstataḥ ,
devatābhyastridhā japtvā maṇḍalāni prakalpayet.
उच्चिष्टपात्रपुरतः पूर्वोक्तविधिना बुधः ।
द्वे द्वे च मण्डले देवि रचयेत् पितृतः क्रमात् ॥४९॥
49. ucciṣṭapātrapurataḥ pūrvoktavidhinā budhaḥ ,
dve dve ca maṇḍale devi racayet pitṛtaḥ kramāt.
पूर्वमन्त्रेण संप्रोक्ष्य कुशांस्तेष्वास्तरेत् कृती ।
अभ्युक्ष्य वायुना दर्भान् पितृदर्भक्रमात् शिवे ।
ऊर्द्ध्वे मूले च मध्ये च त्रींस्त्रीन् पिण्डान्निवेदयेत् ॥५०॥
50. pūrvamantreṇa saṁprokṣya kuśāṁsteṣvāstaret kṛtī ,
abhyukṣya vāyunā darbhān pitṛdarbhakramāt śive ,
ūrddhve mūle ca madhye ca trīṁstrīn piṇḍānnivedayet.
आमन्त्रणेन प्रत्येकं नामोच्चार्य महेश्वरि ।
स्वधया वितरेत् पिण्डं यवमाध्वीकसंयुतम् ॥५१॥
51. āmantraṇena pratyekaṁ nāmoccārya maheśvari ,
svadhayā vitaret piṇḍaṁ yavamādhvīkasaṁyutam.
पिण्डान्ते पिण्डशेषञ्च विकीर्य लेपभाजिनः ।
प्रीणयेत् करलेपेन नैकोद्दिष्टेष्वयं विधिः ॥५२॥
52. piṇḍānte piṇḍaśeṣañca vikīrya lepabhājinaḥ ,
prīṇayet karalepena naikoddiṣṭeṣvayaṁ vidhiḥ.
देवतापितृतृप्त्यर्थं सावित्रीं दशधा जपेत् ।
देवताभ्यस्त्रिधा जप्त्वा पिण्डान् सम्पूजयेत्ततः ॥५३॥
53. devatāpitṛtṛptyarthaṁ sāvitrīṁ daśadhā japet ,
devatābhyastridhā japtvā piṇḍān sampūjayettataḥ.
प्रज्वाल्य धूपं दीपं च निमील्य नयनद्वयम् ।
दिव्यदेहधरान् पित्éनश्नतः कव्यमध्वरे ।
विभाव्य प्रणमेद्धीमानिमं मन्त्रमुदीरयन् ॥५४॥
54. prajvālya dhūpaṁ dīpaṁ ca nimīlya nayanadvayam ,
divyadehadharān piténaśnataḥ kavyamadhvare ,
vibhāvya praṇameddhīmānimaṁ mantramudīrayan.
पिता मे परमो धर्मः पिता मे परमं तपः ।
स्वर्गः पिता मे तत्तृप्तौ तृप्तमस्त्यखिलं जगत् ॥५५॥
55. pitā me paramo dharmaḥ pitā me paramaṁ tapaḥ ,
svargaḥ pitā me tattṛptau tṛptamastyakhilaṁ jagat.
ततो निर्माल्यमादाय
प्रार्थयेदाशिषः पित्éन् ॥५६॥
56. tato nirmālyamādāya
prārthayedāśiṣaḥ pitén.
आशिषो मे प्रदीयन्तां पितरः करुणामयाः ।
वेदाः सन्ततयो नित्यं वर्द्धन्तां बान्धवा मम ॥५७॥
57. āśiṣo me pradīyantāṁ pitaraḥ karuṇāmayāḥ ,
vedāḥ santatayo nityaṁ varddhantāṁ bāndhavā mama.
पातारो मे विवर्द्धन्तां बहून्यन्नानि सन्तु मे ।
याचितारः सदा सन्तु मा च याचामि कञ्चन ॥५८॥
58. pātāro me vivarddhantāṁ bahūnyannāni santu me ,
yācitāraḥ sadā santu mā ca yācāmi kañcana.
दैवादितो द्विजान् पिण्डान् विसृजेत्तदनन्तरम् ।
तथैव दक्षिणां कुर्यात् पक्षेषु त्रिषु तत्त्ववित् ॥५९॥
59. daivādito dvijān piṇḍān visṛjettadanantaram ,
tathaiva dakṣiṇāṁ kuryāt pakṣeṣu triṣu tattvavit.
गायत्रीं दशधा जप्त्वा देवताभ्योऽपि पञ्चधा ।
दृष्ट्वा वह्निं रविं विप्रमिदं पृच्चेत् कृताञ्जलिः ॥६०॥
60. gāyatrīṁ daśadhā japtvā devatābhyo'pi pañcadhā ,
dṛṣṭvā vahniṁ raviṁ vipramidaṁ pṛccet kṛtāñjaliḥ.
इदं श्राद्धं समुच्चार्य साङ्गं जातमुदीरयेत् ।
द्विजो वदेत् सम्यगेव साङ्गं जातं विधानतः ॥६१॥
61. idaṁ śrāddhaṁ samuccārya sāṅgaṁ jātamudīrayet ,
dvijo vadet samyageva sāṅgaṁ jātaṁ vidhānataḥ.
अङ्गवैगुण्यशान्त्यर्थं प्रणवं दशधा जपन् ।
अच्चिद्राभिविधानेन कुर्यात् कर्मसमापनम् ।
पात्रीयान्नानि पिण्डांश्च ब्राह्मणाय निवेदयेत् ॥६२॥
62. aṅgavaiguṇyaśāntyarthaṁ praṇavaṁ daśadhā japan ,
accidrābhividhānena kuryāt karmasamāpanam ,
pātrīyānnāni piṇḍāṁśca brāhmaṇāya nivedayet.
विप्राभावे गवाजेभ्यः सलिले वा विनिःक्षिपेत् ।
वृद्धिश्राद्धमिदं प्रोक्तं नित्यसंस्कारकर्मणि ॥६३॥
63. viprābhāve gavājebhyaḥ salile vā viniḥkṣipet ,
vṛddhiśrāddhamidaṁ proktaṁ nityasaṁskārakarmaṇi.
श्राद्धे पर्वणि कर्तव्ये
पार्वणत्वेन कीर्तयेत् ॥६४॥
64. śrāddhe parvaṇi kartavye
pārvaṇatvena kīrtayet.
देवतादिप्रतिष्ठासु तीर्थयात्राप्रवेशयोः ।
पार्वणेन विधानेन श्राद्धमेतदुदीरयेत् ॥६५॥
65. devatādipratiṣṭhāsu tīrthayātrāpraveśayoḥ ,
pārvaṇena vidhānena śrāddhametadudīrayet.
नैतेषु श्राद्धकृत्येषु पित्éन्नान्दीमुखान् वदेत् ।
नमोऽन्तपुष्ट्यायित्यत्र स्वधायै पदमुच्चरेत् ॥६६॥
66. naiteṣu śrāddhakṛtyeṣu piténnāndīmukhān vadet ,
namo'ntapuṣṭyāyityatra svadhāyai padamuccaret.
पित्रादित्रयमध्ये तु यो जीवति वरानने ।
तस्योर्द्ध्वतनमुल्लिख्य श्राद्धं कुर्याद्विचक्षणः ॥६७॥
67. pitrāditrayamadhye tu yo jīvati varānane ,
tasyorddhvatanamullikhya śrāddhaṁ kuryādvicakṣaṇaḥ.
जनकादिषु जीवत्सु त्रिषु श्राद्धं विवर्जयेत् ।
तेषु प्रीतेषु देवेशि श्राद्धयज्ञफलं लभेत् ॥६८॥
68. janakādiṣu jīvatsu triṣu śrāddhaṁ vivarjayet ,
teṣu prīteṣu deveśi śrāddhayajñaphalaṁ labhet.
जीवत्पितरि कल्याणि नान्यश्राद्धाधिकारिता ।
मातुः श्राद्धं विना पत्न्यास्तथा नान्दीमुखं विना ॥६९॥
69. jīvatpitari kalyāṇi nānyaśrāddhādhikāritā ,
mātuḥ śrāddhaṁ vinā patnyāstathā nāndīmukhaṁ vinā.
एकोद्दिष्टे तु कौलेशि विश्वदेवान्न पूजयेत् ।
एकमेव समुद्दिश्याऽनुज्ञावाक्यं प्रकल्पयेत् ॥७०॥
70. ekoddiṣṭe tu kauleśi viśvadevānna pūjayet ,
ekameva samuddiśyā'nujñāvākyaṁ prakalpayet.
दक्षिणाभिमुखो दद्यादन्नं पिण्डं च मानवः ।
यवस्थाने तिला देयाः सर्वमन्यच्च पूर्ववत् ॥७१॥
71. dakṣiṇābhimukho dadyādannaṁ piṇḍaṁ ca mānavaḥ ,
yavasthāne tilā deyāḥ sarvamanyacca pūrvavat.
प्रेतश्राद्धे विशेषोऽयं गङ्गाद्यर्चां विवर्जयेत् ।
मृतं समुल्लिखेत् प्रेतं वाक्ये दानेऽन्नपिण्डयोः ॥७२॥
72. pretaśrāddhe viśeṣo'yaṁ gaṅgādyarcāṁ vivarjayet ,
mṛtaṁ samullikhet pretaṁ vākye dāne'nnapiṇḍayoḥ.
एकमुद्दिश्य यत् श्राद्धमेकोद्दिष्टं तदुच्यते ।
प्रेतस्यान्ने च पिण्डे च मत्स्यं मांसं नियोजयेत् ॥७३॥
73. ekamuddiśya yat śrāddhamekoddiṣṭaṁ taducyate ,
pretasyānne ca piṇḍe ca matsyaṁ māṁsaṁ niyojayet.
अशौचान्तात् द्वितीयेऽह्नि श्राद्धं यत् कुरुते नरः ।
प्रेतश्राद्धं विजानीहि तदेव कुलनायिके ॥७४॥
74. aśaucāntāt dvitīye'hni śrāddhaṁ yat kurute naraḥ ,
pretaśrāddhaṁ vijānīhi tadeva kulanāyike.
गर्भस्रावाज्जातमृतादन्यत्र मृतजातयोः ।
कुलाचारानुसारेण मानवोऽशौचमाचरेत् ॥७५॥
75. garbhasrāvājjātamṛtādanyatra mṛtajātayoḥ ,
kulācārānusāreṇa mānavo'śaucamācaret.
द्विजातीनां दशाहेन द्वादशाहेन पक्षतः ।
शूद्रसामान्ययोर्देवि मासेनाशौचकल्पना ॥७६॥
76. dvijātīnāṁ daśāhena dvādaśāhena pakṣataḥ ,
śūdrasāmānyayordevi māsenāśaucakalpanā.
असपिण्डमृतज्ञातौ त्रिरात्राशौचमिष्यते ।
शृण्वतोऽपि गताशौचे सपिण्डस्य मृतिं शिवे ॥७७॥
77. asapiṇḍamṛtajñātau trirātrāśaucamiṣyate ,
śṛṇvato'pi gatāśauce sapiṇḍasya mṛtiṁ śive.
अशुचिर्नाधिकारी स्याद्दैवे स्याद्दैवे पित्र्ये च कर्मणि ।
ऋते कुलार्चनादाद्ये तथा प्रारब्धकर्मणः ॥७८॥
78. aśucirnādhikārī syāddaive syāddaive pitrye ca karmaṇi ,
ṛte kulārcanādādye tathā prārabdhakarmaṇaḥ.
पञ्चवर्षाधिकान् मर्त्यान् दाहयेत् पितृकानने ।
भर्त्रा सह कुलेशानि न दहेत् कुलकामिनीम् ॥७९॥
79. pañcavarṣādhikān martyān dāhayet pitṛkānane ,
bhartrā saha kuleśāni na dahet kulakāminīm.
तव स्वरूपा रमणी जगत्याच्चन्नविग्रहा ।
मोहाद्भर्तुश्चितारोहात् भवेन्नरकगामिनी ॥८०॥
80. tava svarūpā ramaṇī jagatyāccannavigrahā ,
mohādbhartuścitārohāt bhavennarakagāminī.
ब्रह्ममन्त्रोपासकांस्तु तेषामाज्ञानुसारतः ।
प्रवाहयेद्वा निखनेद्दाहयेद्वापि कालिके ॥८१॥
81. brahmamantropāsakāṁstu teṣāmājñānusārataḥ ,
pravāhayedvā nikhaneddāhayedvāpi kālike.
पुण्यक्षेत्रे च तीर्थे वा देव्याः पार्श्वे विशेषतः ।
कुलीनानां समीपे वा मरणं शस्तमम्बिके ॥८२॥
82. puṇyakṣetre ca tīrthe vā devyāḥ pārśve viśeṣataḥ ,
kulīnānāṁ samīpe vā maraṇaṁ śastamambike.
विभावयन् सत्यमेकं विस्मरन् जगतां त्रयम् ।
परित्यजति यः प्राणान् स स्वरूपे प्रतिष्ठति ॥८३॥
83. vibhāvayan satyamekaṁ vismaran jagatāṁ trayam ,
parityajati yaḥ prāṇān sa svarūpe pratiṣṭhati.
प्रेतभूमौ शवं नीत्वा स्नापयित्वा घृतोक्षितम् ।
उत्तराभिमुखं कृत्वा शाययेत्तं चितोपरि ॥८४॥
84. pretabhūmau śavaṁ nītvā snāpayitvā ghṛtokṣitam ,
uttarābhimukhaṁ kṛtvā śāyayettaṁ citopari.
सम्बोधनान्तं तद्गोत्रं प्रेताख्यानं समुच्चरन् ।
दत्त्वा पिण्डं प्रेतमुखे दहेद्वह्निमनुं स्मरन् ॥८५॥
85. sambodhanāntaṁ tadgotraṁ pretākhyānaṁ samuccaran ,
dattvā piṇḍaṁ pretamukhe dahedvahnimanuṁ smaran.
पिण्डन्तु रचयेत्तत्र सिद्धान्नैस्तण्डुलैश्च वा ।
यवगोधूमचूर्णैर्वा धात्रीफलसमं प्रिये ॥८६॥
86. piṇḍantu racayettatra siddhānnaistaṇḍulaiśca vā ,
yavagodhūmacūrṇairvā dhātrīphalasamaṁ priye.
स्थितेषु प्रेतपुत्रेषु ज्येष्ठे श्राद्धाधिकारिता ।
तदभावेऽन्यपुत्रादौ ज्येष्ठानुक्रमतो भवेत् ॥८७॥
87. sthiteṣu pretaputreṣu jyeṣṭhe śrāddhādhikāritā ,
tadabhāve'nyaputrādau jyeṣṭhānukramato bhavet.
अशौचान्तान्तदिवसे कृतस्नानो नरः शुचिः ।
मृतप्रेतत्वमुक्त्यर्थमुत्सृजेत्तिलकाञ्चनम् ॥८८॥
88. aśaucāntāntadivase kṛtasnāno naraḥ śuciḥ ,
mṛtapretatvamuktyarthamutsṛjettilakāñcanam.
गां भूमिं वसनं यानं पात्रं धातुविनिर्मितम् ।
भोज्यं बहुविधं दद्यात् प्रेतस्वर्गाय सत्सुतः ॥८९॥
89. gāṁ bhūmiṁ vasanaṁ yānaṁ pātraṁ dhātuvinirmitam ,
bhojyaṁ bahuvidhaṁ dadyāt pretasvargāya satsutaḥ.
गन्धं माल्यं फलं तोयं शय्यां प्रियकरीं तथा ।
यद् यत् प्रेतप्रियं द्रव्यं तत् स्वर्गाय समुत्सृजेत् ॥९०॥
90. gandhaṁ mālyaṁ phalaṁ toyaṁ śayyāṁ priyakarīṁ tathā ,
yad yat pretapriyaṁ dravyaṁ tat svargāya samutsṛjet.
ततस्तु वृषभञ्चैकं त्रिशूलाङ्केन लाञ्चितम् ।
स्वर्णेनालङ्कृतं कृत्वा त्यजेत् तत्स्वरवाप्तये ॥९१॥
91. tatastu vṛṣabhañcaikaṁ triśūlāṅkena lāñcitam ,
svarṇenālaṅkṛtaṁ kṛtvā tyajet tatsvaravāptaye.
प्रेतश्राद्धोक्तविधिना श्राद्धं कृत्वाऽतिभक्तितः ।
ब्रह्मज्ञान् ब्राह्मणान् कौलान् क्षुधितानपि भोजयेत् ॥९२॥
92. pretaśrāddhoktavidhinā śrāddhaṁ kṛtvā'tibhaktitaḥ ,
brahmajñān brāhmaṇān kaulān kṣudhitānapi bhojayet.
दानेष्वशक्तो मनुजः कुर्वन् श्राद्धं स्वशक्तितः ।
बुभुक्षितान् भोजयित्वा प्रेतत्वं मोचयेत् पितुः ॥९३॥
93. dāneṣvaśakto manujaḥ kurvan śrāddhaṁ svaśaktitaḥ ,
bubhukṣitān bhojayitvā pretatvaṁ mocayet pituḥ.
आद्यैकोद्दिष्टमेतत्तु प्रेतत्वान्मुक्तिकारणम् ।
वर्षे वर्षे मृततिथौ दद्यादन्नं गतासवे ॥९४॥
94. ādyaikoddiṣṭametattu pretatvānmuktikāraṇam ,
varṣe varṣe mṛtatithau dadyādannaṁ gatāsave.
बहुभिर्विधिभिः किं वा कर्मभिर्बहुभिश्च किम् ।
सर्वसिद्धिमवाप्नोति मानवः कौलिकार्चनात् ॥९५॥
95. bahubhirvidhibhiḥ kiṁ vā karmabhirbahubhiśca kim ,
sarvasiddhimavāpnoti mānavaḥ kaulikārcanāt.
विना होमाज्जपात् श्राद्धात् संस्कारेषु च कर्मसु ।
सम्पूर्णकार्यसिद्धिः स्यादेकया कौलिकार्चया ॥९६॥
96. vinā homājjapāt śrāddhāt saṁskāreṣu ca karmasu ,
sampūrṇakāryasiddhiḥ syādekayā kaulikārcayā.
शुक्लां चतुर्थीमारभ्य शुभकर्माणि साधयेत् ।
असितां पञ्चमीं यावत् विधिरेष शिवोदितः ॥९७॥
97. śuklāṁ caturthīmārabhya śubhakarmāṇi sādhayet ,
asitāṁ pañcamīṁ yāvat vidhireṣa śivoditaḥ.
अन्यत्रापि विरुद्धेऽह्नि गुर्वर्त्विक्कौलिकाज्ञया ।
कर्माण्यपरिहार्याणि कर्मार्थी कर्तुमर्हति ॥९८॥
98. anyatrāpi viruddhe'hni gurvartvikkaulikājñayā ,
karmāṇyaparihāryāṇi karmārthī kartumarhati.
गृहारम्भः प्रवेशश्च यात्रा रत्नादिधारणम् ।
सम्पूज्याऽद्यां पञ्चतत्त्वैः कुर्यादेतानि कौलिकः ॥९९॥
99. gṛhārambhaḥ praveśaśca yātrā ratnādidhāraṇam ,
sampūjyā'dyāṁ pañcatattvaiḥ kuryādetāni kaulikaḥ.
संक्षेपयात्रामथवा कुर्यात् साधकसत्तमः ।
ध्यायन् देवीं स्मरन्मन्त्रं नत्वा गच्चेद् यथामति ॥१००॥
100. saṁkṣepayātrāmathavā kuryāt sādhakasattamaḥ ,
dhyāyan devīṁ smaranmantraṁ natvā gacced yathāmati.
सर्वासु देवतार्चसु शारदीयोत्सवादिषु ।
तत्तत्कल्पोक्तविधिना ध्यानपूजां समाचरेत् ॥१०१॥
101. sarvāsu devatārcasu śāradīyotsavādiṣu ,
tattatkalpoktavidhinā dhyānapūjāṁ samācaret.
आद्यापूजोक्तविधिना बलिहोमं प्रयोजयेत् ।
कौलार्चनं दक्षिणाञ्च कृत्वा कर्म समापयेत् ॥१०२॥
102. ādyāpūjoktavidhinā balihomaṁ prayojayet ,
kaulārcanaṁ dakṣiṇāñca kṛtvā karma samāpayet.
गङ्गां विष्णुं शिवं सूर्यं ब्रह्माणं परिपूज्य च ।
उद्देश्यमर्चयेद्देवं सामान्यो विधिरीरितः ॥१०३॥
103. gaṅgāṁ viṣṇuṁ śivaṁ sūryaṁ brahmāṇaṁ paripūjya ca ,
uddeśyamarcayeddevaṁ sāmānyo vidhirīritaḥ.
कौलिकः परमं धर्मः कौलिकः परदेवता ।
कौलिकः परमं तीर्थं तस्मात् कौलं सदार्चयेत् ॥१०४॥
104. kaulikaḥ paramaṁ dharmaḥ kaulikaḥ paradevatā ,
kaulikaḥ paramaṁ tīrthaṁ tasmāt kaulaṁ sadārcayet.
सार्द्धत्रिकोटितीर्थानि ब्रह्माद्याः सर्वदेवताः ।
वसन्ति कौलिके देहे किन्न स्यात् कौलिकार्चनात् ॥१०५॥
105. sārddhatrikoṭitīrthāni brahmādyāḥ sarvadevatāḥ ,
vasanti kaulike dehe kinna syāt kaulikārcanāt.
पूर्णाभिषिक्तः सत्कौलो यस्मिन् देशे विराजते ।
धन्यो मान्यः पुण्यतमः स देशः प्रार्थते सुरैः ॥१०६॥
106. pūrṇābhiṣiktaḥ satkaulo yasmin deśe virājate ,
dhanyo mānyaḥ puṇyatamaḥ sa deśaḥ prārthate suraiḥ.
कृतपूर्णाभिषेकस्य साधकस्य शिवात्मनः ।
पुण्यपापविहीनस्य प्रभावं वेत्ति को भुवि ॥१०७॥
107. kṛtapūrṇābhiṣekasya sādhakasya śivātmanaḥ ,
puṇyapāpavihīnasya prabhāvaṁ vetti ko bhuvi.
केवलं नररूपेण तारयन्नखिलं जगत् ।
शिक्षयन् लोकयात्राञ्च कौलो विहरति क्षितौ ॥१०८॥
108. kevalaṁ nararūpeṇa tārayannakhilaṁ jagat ,
śikṣayan lokayātrāñca kaulo viharati kṣitau.
पूर्णाभिषिक्तकौलस्य माहात्म्यं कथितं प्रभो ।
विधानमभिषेकस्य कृपया श्रावयस्व माम् ॥१०९॥
109. pūrṇābhiṣiktakaulasya māhātmyaṁ kathitaṁ prabho ,
vidhānamabhiṣekasya kṛpayā śrāvayasva mām.
विधानमेतत् परमं गुप्तमासीद् युगत्रये ।
गुप्तभावेन कुर्वन्तो नरा मोक्षं ययुः पुरा ॥११०॥
110. vidhānametat paramaṁ guptamāsīd yugatraye ,
guptabhāvena kurvanto narā mokṣaṁ yayuḥ purā.
प्रवले कलिकाले तु प्रकाशे कुलवर्त्मनः ।
नक्तं वा दिवसे कुर्यात् सप्रकाशाभिषेचनम् ॥१११॥
111. pravale kalikāle tu prakāśe kulavartmanaḥ ,
naktaṁ vā divase kuryāt saprakāśābhiṣecanam.
नाऽभिषेकं विना कौलः केवलं मद्यसेवनात् ।
पूर्णाभिषेकात् कौलः स्यात् चक्राधीशः कुलार्चकः ॥११२॥
112. nā'bhiṣekaṁ vinā kaulaḥ kevalaṁ madyasevanāt ,
pūrṇābhiṣekāt kaulaḥ syāt cakrādhīśaḥ kulārcakaḥ.
तत्राभिषेकपूर्वेऽह्णि सर्वविघ्नोपशान्तये ।
यथाशक्त्युपचारेण विघ्नेशं पूजयेद्गुरुः ॥११३॥
113. tatrābhiṣekapūrve'hṇi sarvavighnopaśāntaye ,
yathāśaktyupacāreṇa vighneśaṁ pūjayedguruḥ.
गुरुश्चेन्नाधिकारी स्यात् शुभपूर्णाभिषेचने ।
तदाऽभिषिक्तकौलेन संस्कारं साधयेत् प्रिये ॥११४॥
114. guruścennādhikārī syāt śubhapūrṇābhiṣecane ,
tadā'bhiṣiktakaulena saṁskāraṁ sādhayet priye.
खान्तार्णं बिन्दुसंयुक्तं
बीजमस्य प्रकीर्तितम् ॥११५॥
115. khāntārṇaṁ bindusaṁyuktaṁ
bījamasya prakīrtitam.
गणकोऽस्य ऋषिश्चन्दो निवृत् विघ्नस्तु देवता ।
कर्तव्यकर्मणो विघ्नशान्त्यर्थे विनियोगिता ॥११६॥
116. gaṇako'sya ṛṣiścando nivṛt vighnastu devatā ,
kartavyakarmaṇo vighnaśāntyarthe viniyogitā.
षड्दीर्घयुक्तमूलेन षडङ्गानि समाचरेत् ।
प्राणायामं ततः कृत्वा ध्यायेद् गणपतिं शिवे ॥११७॥
117. ṣaḍdīrghayuktamūlena ṣaḍaṅgāni samācaret ,
prāṇāyāmaṁ tataḥ kṛtvā dhyāyed gaṇapatiṁ śive.
सिन्दूराभं त्रिनेत्रं पृथुतरजठरं हस्तपद्मैर्दधानं ।
खड्गं पाशाङ्कुशेष्टान्युरुकरविलसद्वारुणीपूर्णकुम्भकम् ।
बालेन्दूद्दीप्तमौलिं करिपतिवदनं बीजपूरार्द्रगण्डं भोगीन्द्राबद्धभूषं भजत गणपतिं रक्तवस्त्राङ्गरागम् ॥११८॥
118. sindūrābhaṁ trinetraṁ pṛthutarajaṭharaṁ hastapadmairdadhānaṁ ,
khaḍgaṁ pāśāṅkuśeṣṭānyurukaravilasadvāruṇīpūrṇakumbhakam ,
bālendūddīptamauliṁ karipativadanaṁ bījapūrārdragaṇḍaṁ bhogīndrābaddhabhūṣaṁ bhajata gaṇapatiṁ raktavastrāṅgarāgam.
ध्यात्वैवं मानसैरिष्ट्वा पीठशक्तीः प्रपूजयेत् ।
तीव्रा च ज्वालिनी नन्दा भोगदा कामरूपिणी ॥११९॥
119. dhyātvaivaṁ mānasairiṣṭvā pīṭhaśaktīḥ prapūjayet ,
tīvrā ca jvālinī nandā bhogadā kāmarūpiṇī.
उग्रा तेजस्वती सत्या मध्ये विघ्नविनाशिनी ।
पूर्वादितोऽर्चयित्वैताः पूजयेत् कमलासनम् ॥१२०॥
120. ugrā tejasvatī satyā madhye vighnavināśinī ,
pūrvādito'rcayitvaitāḥ pūjayet kamalāsanam.
पुनर्ध्यात्वा गणेशानं पञ्चतत्त्वोपचारकैः ।
अभ्यर्च्य तच्चतुर्दिक्षु गणेशं गणनायकम् ॥१२१॥
121. punardhyātvā gaṇeśānaṁ pañcatattvopacārakaiḥ ,
abhyarcya taccaturdikṣu gaṇeśaṁ gaṇanāyakam.
गणनाथं गणक्रीडं यजेत् कौलिकसत्तमः ।
एकदन्तं रक्ततुण्डं लम्बोदरगजाननौ ॥१२२॥
122. gaṇanāthaṁ gaṇakrīḍaṁ yajet kaulikasattamaḥ ,
ekadantaṁ raktatuṇḍaṁ lambodaragajānanau.
महोदरञ्च विकटं
धूम्राभं विघ्ननाशनम् ॥१२३॥
123. mahodarañca vikaṭaṁ
dhūmrābhaṁ vighnanāśanam.
ततो ब्राह्मीमुखाः शक्तीर्दिक्पालांश्च प्रपूजयन् ।
तेषामस्त्राणि सम्पूज्य विघ्नराजं विसर्जयेत् ॥१२४॥
124. tato brāhmīmukhāḥ śaktīrdikpālāṁśca prapūjayan ,
teṣāmastrāṇi sampūjya vighnarājaṁ visarjayet.
एवं सम्पूज्य विघ्नेशमधिवासनमाचरेत् ।
भोजयेच्च पञ्चतत्त्वैर्ब्रह्मज्ञान् कुलसाधकान् ॥१२५॥
125. evaṁ sampūjya vighneśamadhivāsanamācaret ,
bhojayecca pañcatattvairbrahmajñān kulasādhakān.
ततः परदिने स्नातः कृतनित्योदितक्रियः ।
आजन्मकृतपापानां क्षयार्थं तिलकाञ्चनम् ।
उत्सृजेत् कौलतृप्त्यर्थं भोज्यञ्चैकमपि प्रिये ॥१२६॥
126. tataḥ paradine snātaḥ kṛtanityoditakriyaḥ ,
ājanmakṛtapāpānāṁ kṣayārthaṁ tilakāñcanam ,
utsṛjet kaulatṛptyarthaṁ bhojyañcaikamapi priye.
अर्घ्यं दत्त्वा दिनेशाय ब्रह्मविष्णुशिवग्रहान् ।
अर्चयित्वा मातृगणान् वसुधारां प्रकल्पयेत् ॥१२७॥
127. arghyaṁ dattvā dineśāya brahmaviṣṇuśivagrahān ,
arcayitvā mātṛgaṇān vasudhārāṁ prakalpayet.
कर्मणोऽभ्युदयार्थाय वृद्धिश्राद्धं समाचरेत् ।
ततो गत्वा गुरोः पार्श्वं प्रणम्य प्रार्थयेदिदम् ॥१२८॥
128. karmaṇo'bhyudayārthāya vṛddhiśrāddhaṁ samācaret ,
tato gatvā guroḥ pārśvaṁ praṇamya prārthayedidam.
त्राहि नाथ कुलाचारनलिनीकुलवल्लभ ।
त्वत्पादाम्भोरुहचायां देहि मूर्ध्नि कृपानिधे ॥१२९॥
129. trāhi nātha kulācāranalinīkulavallabha ,
tvatpādāmbhoruhacāyāṁ dehi mūrdhni kṛpānidhe.
आज्ञां देहि महाभाग शुभपूर्णाभिषेचने ।
निर्विघ्नं कर्मणः सिद्धिमुपैमि त्वत्प्रसादतः ॥१३०॥
130. ājñāṁ dehi mahābhāga śubhapūrṇābhiṣecane ,
nirvighnaṁ karmaṇaḥ siddhimupaimi tvatprasādataḥ.
शिवशक्त्याज्ञया वत्स कुरु पूर्णाभिषेचनम् ।
मनोरथमयी सिद्धिर्जायतां शिवशासनात् ॥१३१॥
131. śivaśaktyājñayā vatsa kuru pūrṇābhiṣecanam ,
manorathamayī siddhirjāyatāṁ śivaśāsanāt.
इत्थमाज्ञां गुरोः प्राप्य सर्वोपद्रवशान्तये ।
आयुर्लक्ष्मीवलारोग्यावाप्त्यै सङ्कल्पमाचरेत् ॥१३२॥
132. itthamājñāṁ guroḥ prāpya sarvopadravaśāntaye ,
āyurlakṣmīvalārogyāvāptyai saṅkalpamācaret.
ततस्तु कृतसङ्कल्पो वस्त्रालङ्कारभूषणैः ।
कारणैः शुद्धिसहितैरभ्यर्च्य वृणुयाद् गुरुम् ॥१३३॥
133. tatastu kṛtasaṅkalpo vastrālaṅkārabhūṣaṇaiḥ ,
kāraṇaiḥ śuddhisahitairabhyarcya vṛṇuyād gurum.
गुरुर्मनोहरे गेहे गैरिकादिविचित्रिते ।
चित्रध्वजपताकाभिः फलपल्लवशोभिते ॥१३४॥
134. gururmanohare gehe gairikādivicitrite ,
citradhvajapatākābhiḥ phalapallavaśobhite.
किङ्किणीजालमालाभिश्चन्द्रातपविभूषिते ।
घृतप्रदीपावलिभिस्तमोलेशविवर्जिते ॥१३५॥
135. kiṅkiṇījālamālābhiścandrātapavibhūṣite ,
ghṛtapradīpāvalibhistamoleśavivarjite.
कर्पूरसहितैर्धूपैर्यक्षधूपैः सुवासिते ।
व्यजनैश्चामरैर्बर्हैर्दर्पणाद्यैरलङ्कृते ॥१३६॥
136. karpūrasahitairdhūpairyakṣadhūpaiḥ suvāsite ,
vyajanaiścāmarairbarhairdarpaṇādyairalaṅkṛte.
सार्धहस्तमितां वेदीमुच्चकैश्चतुरङ्गुलाम् ।
रचयेन्मृण्मयीं तत्र चूर्णैरक्षतसम्भवैः ॥१३७॥
137. sārdhahastamitāṁ vedīmuccakaiścaturaṅgulām ,
racayenmṛṇmayīṁ tatra cūrṇairakṣatasambhavaiḥ.
पीतरक्तासितश्वेतश्यामलैः सुमनोहरम् ।
मण्डलं सर्वतोभद्रं विदद्यात् श्रीगुरुस्ततः ॥१३८॥
138. pītaraktāsitaśvetaśyāmalaiḥ sumanoharam ,
maṇḍalaṁ sarvatobhadraṁ vidadyāt śrīgurustataḥ.
स्वस्वकल्पोक्तविधिना मानसार्चावधिक्रियाम् ।
कृत्वा पूर्वोक्तमन्त्रेण पञ्चतत्त्वानि शोधयेत् ॥१३९॥
139. svasvakalpoktavidhinā mānasārcāvadhikriyām ,
kṛtvā pūrvoktamantreṇa pañcatattvāni śodhayet.
संशोध्य पञ्चतत्त्वानि पुरःकल्पितमण्डले ।
स्वार्णं वा राजतं ताम्रं मृण्मयं घटमेव वा ॥१४०॥
140. saṁśodhya pañcatattvāni puraḥkalpitamaṇḍale ,
svārṇaṁ vā rājataṁ tāmraṁ mṛṇmayaṁ ghaṭameva vā.
क्षालितञ्चाऽस्त्रबीजेन दध्यक्षतविचर्चितम् ।
स्थापयेद्ब्रह्मबीजेन सिन्दूरेणाऽङ्कयेत् श्रिया ॥१४१॥
141. kṣālitañcā'strabījena dadhyakṣatavicarcitam ,
sthāpayedbrahmabījena sindūreṇā'ṅkayet śriyā.
क्षकाराद्यैरकारान्तैर्वर्णैर्बिन्दुविभूषितैः ।
मूलमन्त्रत्रिजापेन पूरयेत् कारणेन तम् ॥१४२॥
142. kṣakārādyairakārāntairvarṇairbinduvibhūṣitaiḥ ,
mūlamantratrijāpena pūrayet kāraṇena tam.
अथवा तीर्थतोयेन शुद्धेन पाथसाऽपि वा ।
नवरत्नं सुवर्णं वा घटमध्ये विनिःक्षिपेत् ॥१४३॥
143. athavā tīrthatoyena śuddhena pāthasā'pi vā ,
navaratnaṁ suvarṇaṁ vā ghaṭamadhye viniḥkṣipet.
पनसोडुम्बराश्वत्थवकुलाम्रसमुद्भवम् ।
पल्लवं तन्मुखे दद्यात् वाग्भवेन कृपानिधिः ॥१४४॥
144. panasoḍumbarāśvatthavakulāmrasamudbhavam ,
pallavaṁ tanmukhe dadyāt vāgbhavena kṛpānidhiḥ.
शरावं मार्तिकं वापि फलाक्षतसमन्वितम् ।
रामां मायां समुच्चार्य स्थापयेत् पल्लवोपरि ॥१४५॥
145. śarāvaṁ mārtikaṁ vāpi phalākṣatasamanvitam ,
rāmāṁ māyāṁ samuccārya sthāpayet pallavopari.
बध्नीयाद्वस्त्रयुग्मेन ग्रीवां तस्य वरानने ।
शक्तौ रक्तं शिवे विष्णौ श्वेतवासः प्रकीर्तितम् ॥१४६॥
146. badhnīyādvastrayugmena grīvāṁ tasya varānane ,
śaktau raktaṁ śive viṣṇau śvetavāsaḥ prakīrtitam.
स्थां स्थीं मायां रमां स्मृत्वा स्थिरीकृत्य घटान्तरे ।
निःक्षिप्य पञ्चतत्त्वानि नवपात्राणि विन्यसेत् ॥१४७॥
147. sthāṁ sthīṁ māyāṁ ramāṁ smṛtvā sthirīkṛtya ghaṭāntare ,
niḥkṣipya pañcatattvāni navapātrāṇi vinyaset.
राजतं शक्तिपात्रं स्यात् गुरुपात्रं हिरण्मयम् ।
श्रीपात्रन्तु महाशङ्खं ताम्राण्यन्यानि कल्पयेत् ॥१४८॥
148. rājataṁ śaktipātraṁ syāt gurupātraṁ hiraṇmayam ,
śrīpātrantu mahāśaṅkhaṁ tāmrāṇyanyāni kalpayet.
पाषाणदारुलौहानां पात्राणि परिवर्जयेत् ।
शक्त्या प्रकल्पयेत् पात्रं महादेव्याः प्रपूजने ॥१४९॥
149. pāṣāṇadārulauhānāṁ pātrāṇi parivarjayet ,
śaktyā prakalpayet pātraṁ mahādevyāḥ prapūjane.
पात्राणां स्थापनं कृत्वा गुरून् देवीं प्रतर्पयेत् ।
ततस्त्वमृतसम्पूर्णघटमभ्यर्चयेत् सुधीः ॥१५०॥
150. pātrāṇāṁ sthāpanaṁ kṛtvā gurūn devīṁ pratarpayet ,
tatastvamṛtasampūrṇaghaṭamabhyarcayet sudhīḥ.
दर्शयित्वा धूपदीपौ सर्वभूतबलिं हरेत् ।
पीठदेवान् पूजयित्वा षडङ्गन्यासमाचरेत् ॥१५१॥
151. darśayitvā dhūpadīpau sarvabhūtabaliṁ haret ,
pīṭhadevān pūjayitvā ṣaḍaṅganyāsamācaret.
प्राणायामं ततः कृत्वा ध्यात्वाऽवाह्य महेश्वरीम् ।
स्वशक्त्या पूजयेदिष्टां वित्तशाठ्यं विवर्जयेत् ॥१५२॥
152. prāṇāyāmaṁ tataḥ kṛtvā dhyātvā'vāhya maheśvarīm ,
svaśaktyā pūjayediṣṭāṁ vittaśāṭhyaṁ vivarjayet.
होमान्तकृत्यं निष्पाद्य कुमारीशक्तिसाधकान् ।
पुष्पचन्दनवासोभिरर्चयेत् सद्गुरुः शिवे ॥१५३॥
153. homāntakṛtyaṁ niṣpādya kumārīśaktisādhakān ,
puṣpacandanavāsobhirarcayet sadguruḥ śive.
अनुगृह्णन्तु कौला मे शिष्यं प्रति कुलव्रताः ।
पूर्णाभिषेकसंस्कारे भवद्भिरनुमन्यताम् ॥१५४॥
154. anugṛhṇantu kaulā me śiṣyaṁ prati kulavratāḥ ,
pūrṇābhiṣekasaṁskāre bhavadbhiranumanyatām.
एवं पृच्चति चक्रेशे तं ब्रूयुर्गुरुमादरात् ।
महामायाप्रसादेन प्रभावात् परमात्मनः ।
शिष्यो भवतु पूर्णस्ते परतत्त्वपरायणः ॥१५५॥
155. evaṁ pṛccati cakreśe taṁ brūyurgurumādarāt ,
mahāmāyāprasādena prabhāvāt paramātmanaḥ ,
śiṣyo bhavatu pūrṇaste paratattvaparāyaṇaḥ.
शिष्येण च गुरुर्देवीमर्चयित्वाऽर्चिते घटे ।
कामं मायां रमां जप्त्वा चालयेद्विमलं घटम् ॥१५६॥
156. śiṣyeṇa ca gururdevīmarcayitvā'rcite ghaṭe ,
kāmaṁ māyāṁ ramāṁ japtvā cālayedvimalaṁ ghaṭam.
उत्तिष्ठ ब्रह्मकलश देवतात्मक सिद्धिद ।
त्वत्तोयपल्लवैः सिक्तः शिष्यो ब्रह्मरतोऽस्तु मे ॥१५७॥
157. uttiṣṭha brahmakalaśa devatātmaka siddhida ,
tvattoyapallavaiḥ siktaḥ śiṣyo brahmarato'stu me.
इत्थं सञ्चाल्य कलशमुत्तराभिमुखं गुरुः ।
मन्त्रैरेतैर्वक्ष्यमाणैरभिषिञ्चेत् कृपान्वितः ॥१५८॥
158. itthaṁ sañcālya kalaśamuttarābhimukhaṁ guruḥ ,
mantrairetairvakṣyamāṇairabhiṣiñcet kṛpānvitaḥ.
शुभपूर्णाभिषेकस्य सदाशिव ऋषिः स्मृतः ।
चन्दोऽनुष्टुब्देवताऽद्या प्रणवं बीजमीरितम् ।
शुभपूर्णाभिषेकार्थे विनियोगः प्रकीर्तितः ॥१५९॥
159. śubhapūrṇābhiṣekasya sadāśiva ṛṣiḥ smṛtaḥ ,
cando'nuṣṭubdevatā'dyā praṇavaṁ bījamīritam ,
śubhapūrṇābhiṣekārthe viniyogaḥ prakīrtitaḥ.
गुरवस्त्वाऽभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
दुर्गालक्ष्मीभवान्यस्त्वामभिषिञ्चन्तु मातरः ॥१६०॥
160. guravastvā'bhiṣiñcantu brahmaviṣṇumaheśvarāḥ ,
durgālakṣmībhavānyastvāmabhiṣiñcantu mātaraḥ.
षोडशी तारिणी नित्या स्वाहा महिषमर्दिनी ।
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ॥१६१॥
161. ṣoḍaśī tāriṇī nityā svāhā mahiṣamardinī ,
etāstvāmabhiṣiñcantu mantrapūtena vāriṇā.
जयदुर्गा विशालाक्षी ब्रह्माणी च सरस्वती ।
एतास्त्वामभिषिञ्चन्तु वगला वरदा शिवा ॥१६२॥
162. jayadurgā viśālākṣī brahmāṇī ca sarasvatī ,
etāstvāmabhiṣiñcantu vagalā varadā śivā.
नारसिंही च वाराही वैष्णवी वनमालिनी ।
इन्द्राणी वारुणी रौद्री त्वाऽभिषिञ्चन्तु शक्तयः ॥१६३॥
163. nārasiṁhī ca vārāhī vaiṣṇavī vanamālinī ,
indrāṇī vāruṇī raudrī tvā'bhiṣiñcantu śaktayaḥ.
भैरवी भद्रकाली च तुष्टिः पुष्टिरुमा क्षमा ।
श्रद्धा कान्तिर्दया शान्तिरभिषिञ्चन्तु ते सदा ॥१६४॥
164. bhairavī bhadrakālī ca tuṣṭiḥ puṣṭirumā kṣamā ,
śraddhā kāntirdayā śāntirabhiṣiñcantu te sadā.
महाकाली महालक्ष्मीर्महानीलसरस्वती ।
उग्रचण्डा प्रचण्डा त्वामभिषिञ्चन्तु सर्वदा ॥१६५॥
165. mahākālī mahālakṣmīrmahānīlasarasvatī ,
ugracaṇḍā pracaṇḍā tvāmabhiṣiñcantu sarvadā.
मत्स्यः कूर्मो वराहश्च नृसिंहो वामनस्तथा ।
रामो भार्गवरामस्त्वामभिषिञ्चन्तु वारिणा ॥१६६॥
166. matsyaḥ kūrmo varāhaśca nṛsiṁho vāmanastathā ,
rāmo bhārgavarāmastvāmabhiṣiñcantu vāriṇā.
असिताङ्गो रुरुश्चण्डः क्रोधोन्मत्तो भयङ्करः ।
कपाली भीषणश्च त्वामभिषिञ्चन्तु वारिणा ॥१६७॥
167. asitāṅgo ruruścaṇḍaḥ krodhonmatto bhayaṅkaraḥ ,
kapālī bhīṣaṇaśca tvāmabhiṣiñcantu vāriṇā.
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ।
विप्रचित्ता महोग्रा त्वामभिषिञ्चन्तु सर्वदा ॥१६८॥
168. kālī kapālinī kullā kurukullā virodhinī ,
vipracittā mahogrā tvāmabhiṣiñcantu sarvadā.
इन्द्रोऽग्निः शमनो रक्षो वरुणः पवनस्तथा ।
धनदश्च महेशानः सिञ्चन्तु त्वां दिगीश्वराः ॥१६९॥
169. indro'gniḥ śamano rakṣo varuṇaḥ pavanastathā ,
dhanadaśca maheśānaḥ siñcantu tvāṁ digīśvarāḥ.
रविः सोमो मङ्गलश्च बुधो जीवः सितः शनिः ।
राहुः केतुः सनक्षत्रा अभिषिञ्चन्तु ते ग्रहाः ॥१७०॥
170. raviḥ somo maṅgalaśca budho jīvaḥ sitaḥ śaniḥ ,
rāhuḥ ketuḥ sanakṣatrā abhiṣiñcantu te grahāḥ.
नक्षत्रं करणं योगो वाराः पक्षौ दिनानि च ।
ऋतुर्मासो हायनस्त्वामभिषिञ्चन्तु सर्वदा ॥१७१॥
171. nakṣatraṁ karaṇaṁ yogo vārāḥ pakṣau dināni ca ,
ṛturmāso hāyanastvāmabhiṣiñcantu sarvadā.
लवणेक्षुसुरासर्पिर्दधिदुग्धजलान्तकाः ।
समुद्रास्त्वाऽभिषिञ्चन्तु मन्त्रपूतेन वारिणा ॥१७२॥
172. lavaṇekṣusurāsarpirdadhidugdhajalāntakāḥ ,
samudrāstvā'bhiṣiñcantu mantrapūtena vāriṇā.
गङ्गा सूर्यसुता रेवा चन्द्रभागा सरस्वती ।
सरयुर्गण्डकी कुन्ती श्वेतगङ्गा च कौशिकी ।
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ॥१७३॥
173. gaṅgā sūryasutā revā candrabhāgā sarasvatī ,
sarayurgaṇḍakī kuntī śvetagaṅgā ca kauśikī ,
etāstvāmabhiṣiñcantu mantrapūtena vāriṇā.
अनन्ताद्या महानागाः सुपर्णाद्याः पतत्रिणः ।
तरवः कल्पवृक्षाद्याः सिञ्चन्तु त्वां महीधराः ॥१७४॥
174. anantādyā mahānāgāḥ suparṇādyāḥ patatriṇaḥ ,
taravaḥ kalpavṛkṣādyāḥ siñcantu tvāṁ mahīdharāḥ.
पातालभूतलव्योमचारिणः क्षेमकारिणः ।
पूर्णाभिषेकसन्तुष्टास्त्वाऽभिषिञ्चन्तु पाथसा ॥१७५॥
175. pātālabhūtalavyomacāriṇaḥ kṣemakāriṇaḥ ,
pūrṇābhiṣekasantuṣṭāstvā'bhiṣiñcantu pāthasā.
दोर्भाग्यं दुर्यशो रोगा दौर्मनस्यं तथा शुचः ।
विनश्यन्त्वभिषेकेन परमब्रह्मतेजसा ॥१७६॥
176. dorbhāgyaṁ duryaśo rogā daurmanasyaṁ tathā śucaḥ ,
vinaśyantvabhiṣekena paramabrahmatejasā.
अलक्ष्मीः कालकर्णी च डाकिन्यो योगिनीगणाः ।
विनश्यन्त्वभिषेकेण कालीबीजेन ताडिताः ॥१७७॥
177. alakṣmīḥ kālakarṇī ca ḍākinyo yoginīgaṇāḥ ,
vinaśyantvabhiṣekeṇa kālībījena tāḍitāḥ.
भूताः प्रेताः पिशाचाश्च ग्रहा येऽरिष्टकारकाः ।
विद्रुतास्ते विनश्यन्तु रमाबीजेन ताडिताः ॥१७८॥
178. bhūtāḥ pretāḥ piśācāśca grahā ye'riṣṭakārakāḥ ,
vidrutāste vinaśyantu ramābījena tāḍitāḥ.
अभिचारकृता दोषा वैरिमन्त्रोद्भवाश्च ये ।
मनोवाक्कायजा दोषाः विनश्यन्त्वभिषेचनात् ॥१७९॥
179. abhicārakṛtā doṣā vairimantrodbhavāśca ye ,
manovākkāyajā doṣāḥ vinaśyantvabhiṣecanāt.
नश्यन्तु विपदः सर्वाः सम्पदः सन्तु सुस्थिराः ।
अभिषेकेण पूर्णेन पूर्णाः सन्तु मनोरथाः ॥१८०॥
180. naśyantu vipadaḥ sarvāḥ sampadaḥ santu susthirāḥ ,
abhiṣekeṇa pūrṇena pūrṇāḥ santu manorathāḥ.
इत्येकाधिकविंशत्या मन्त्रैः संसिक्तसाधकम् ।
पशोर्मुखाल्लब्धमन्त्रं पुनः संश्रावयेद् गुरुः ॥१८१॥
181. ityekādhikaviṁśatyā mantraiḥ saṁsiktasādhakam ,
paśormukhāllabdhamantraṁ punaḥ saṁśrāvayed guruḥ.
पूर्वोक्तनाम्ना सम्बोध्य ज्ञापयन् शक्तिसाधकान् ।
दद्यादानन्दनाथान्तमाख्यानं कौलिको गुरुः ॥१८२॥
182. pūrvoktanāmnā sambodhya jñāpayan śaktisādhakān ,
dadyādānandanāthāntamākhyānaṁ kauliko guruḥ.
श्रुतमन्त्रो गुरोर्यन्त्रे सम्पूज्य निजदेवताम् ।
पञ्चतत्त्वोपचारेण गुरुमभ्यर्चयेत्ततः ॥१८३॥
183. śrutamantro guroryantre sampūjya nijadevatām ,
pañcatattvopacāreṇa gurumabhyarcayettataḥ.
गोभूहिरण्यवासांसि पानालङ्करणानि च ।
गुरवे दक्षिणां दत्त्वा यजेत् कौलान् शिवात्मकान् ॥१८४॥
184. gobhūhiraṇyavāsāṁsi pānālaṅkaraṇāni ca ,
gurave dakṣiṇāṁ dattvā yajet kaulān śivātmakān.
कृतकौलार्चनो धीरः शान्तोऽतिविनयान्वितः ।
श्रीगुरोश्चरणौ स्पृष्ट्वा भक्त्या नत्वेदमर्थयेत् ॥१८५॥
185. kṛtakaulārcano dhīraḥ śānto'tivinayānvitaḥ ,
śrīguroścaraṇau spṛṣṭvā bhaktyā natvedamarthayet.
श्रीनाथ जगतां नाथ मन्नाथ करुणानिधे ।
परामृतप्रदानेन पूरयाऽस्मन्मनोरथम् ॥१८६॥
186. śrīnātha jagatāṁ nātha mannātha karuṇānidhe ,
parāmṛtapradānena pūrayā'smanmanoratham.
आज्ञां मे दीयतां कौलाः प्रत्यक्षशिवरूपिणः ।
सच्चिष्याय विनीताय ददामि परमामृतम् ॥१८७॥
187. ājñāṁ me dīyatāṁ kaulāḥ pratyakṣaśivarūpiṇaḥ ,
sacciṣyāya vinītāya dadāmi paramāmṛtam.
चक्रेश परमेशान कौलपङ्कजभास्कर ।
कृतार्थं कुरु सच्चिष्यं देह्यमुष्मै कुलामृतम् ॥१८८॥
188. cakreśa parameśāna kaulapaṅkajabhāskara ,
kṛtārthaṁ kuru sacciṣyaṁ dehyamuṣmai kulāmṛtam.
आज्ञामादाय कौलानां परमामृतपूरितम् ।
सशुद्धिकं पानपात्रं शिष्यहस्ते समर्पयेत् ॥१८९॥
189. ājñāmādāya kaulānāṁ paramāmṛtapūritam ,
saśuddhikaṁ pānapātraṁ śiṣyahaste samarpayet.
हृद्याकृष्य गुरुर्देवीं स्रुवसंलग्नभस्मना ।
स्वस्य शिष्यस्य कौलानां कूर्चे च तिलकं न्यसेत् ॥१९०॥
190. hṛdyākṛṣya gururdevīṁ sruvasaṁlagnabhasmanā ,
svasya śiṣyasya kaulānāṁ kūrce ca tilakaṁ nyaset.
ततः प्रसादतत्त्वानि कौलेभ्यः परिवेशयन् ।
चक्रानुष्ठानविधिना विदध्यात् पानभोजनम् ॥१९१॥
191. tataḥ prasādatattvāni kaulebhyaḥ pariveśayan ,
cakrānuṣṭhānavidhinā vidadhyāt pānabhojanam.
इति ते कथितं देवि शुभपूर्णाभिषेचनम् ।
ब्रह्मज्ञानैकजननं शिवत्वफलसाधनम् ॥१९२॥
192. iti te kathitaṁ devi śubhapūrṇābhiṣecanam ,
brahmajñānaikajananaṁ śivatvaphalasādhanam.
नवरात्रं सप्तरात्रं पञ्चरात्रं त्रिरात्रकम् ।
अथ वाप्येकरात्रञ्च कुर्यात् पूर्णाभिषेचनम् ॥१९३॥
193. navarātraṁ saptarātraṁ pañcarātraṁ trirātrakam ,
atha vāpyekarātrañca kuryāt pūrṇābhiṣecanam.
संस्कारेऽस्मिन् कुलेशानि पञ्चकल्पाः प्रकीर्तिताः ।
नवरात्रे विधातव्यं सर्वतोभद्रमण्डलम् ॥१९४॥
194. saṁskāre'smin kuleśāni pañcakalpāḥ prakīrtitāḥ ,
navarātre vidhātavyaṁ sarvatobhadramaṇḍalam.
नवनाभं सप्तरात्रे पञ्चाब्जं पञ्चरात्रके ।
त्रिरात्रे चैकरात्रे च पद्ममष्टदलं प्रिये ॥१९५॥
195. navanābhaṁ saptarātre pañcābjaṁ pañcarātrake ,
trirātre caikarātre ca padmamaṣṭadalaṁ priye.
मण्डले सर्वतोभद्रे नवनाभेऽपि साधकैः ।
स्थापनीया नव घटाः पञ्चाब्जे पञ्चसङ्ख्यकाः ॥१९६॥
196. maṇḍale sarvatobhadre navanābhe'pi sādhakaiḥ ,
sthāpanīyā nava ghaṭāḥ pañcābje pañcasaṅkhyakāḥ.
नलिनेऽष्टदले देवि घटस्त्वेकः प्रकीर्तितः ।
अङ्गावरणदेवांश्च केसरादिषु पूजयेत् ॥१९७॥
197. naline'ṣṭadale devi ghaṭastvekaḥ prakīrtitaḥ ,
aṅgāvaraṇadevāṁśca kesarādiṣu pūjayet.
पूर्णाभिषेकसिद्धानां कौलानां निर्मलात्मनाम् ।
दर्शनात् स्पर्शनाद् घ्राणाद् द्रव्यशुद्धिर्विधीयते ॥१९८॥
198. pūrṇābhiṣekasiddhānāṁ kaulānāṁ nirmalātmanām ,
darśanāt sparśanād ghrāṇād dravyaśuddhirvidhīyate.
शाक्तैर्वा वैष्णवैः शैवैः सौरैर्गाणपतैरपि ।
कौलधर्माश्रितः साधुः पूजनीयोऽतियत्नतः ॥१९९॥
199. śāktairvā vaiṣṇavaiḥ śaivaiḥ saurairgāṇapatairapi ,
kauladharmāśritaḥ sādhuḥ pūjanīyo'tiyatnataḥ.
शाक्ते शाक्तो गुरुः शस्तः शैवे शैवो गुरुर्मतः ।
वैष्णवे वैष्णवः सौरे सौरो गुरुरुदाहृतः ॥२००॥
200. śākte śākto guruḥ śastaḥ śaive śaivo gururmataḥ ,
vaiṣṇave vaiṣṇavaḥ saure sauro gururudāhṛtaḥ.
गाणपे गाणपश्चैव कौलः सर्वत्र सद्गुरुः ।
अतः सर्वात्मना धीमान् कौलाद् दीक्षां समाचरेत् ॥२०१॥
201. gāṇape gāṇapaścaiva kaulaḥ sarvatra sadguruḥ ,
ataḥ sarvātmanā dhīmān kaulād dīkṣāṁ samācaret.
पञ्चतत्त्वेन यत्नेन भक्त्या कौलान् यजन्ति ये ।
उद्धृत्य पुरुषान् सर्वांस्ते यान्ति परमां गतिम् ॥२०२॥
202. pañcatattvena yatnena bhaktyā kaulān yajanti ye ,
uddhṛtya puruṣān sarvāṁste yānti paramāṁ gatim.
पशोर्वक्त्राल्लब्धमन्त्रः पशुरेव न संशयः ।
वीराल्लब्धमनुर्वीरः कौलाद्भवति ब्रह्मवित् ॥२०३॥
203. paśorvaktrāllabdhamantraḥ paśureva na saṁśayaḥ ,
vīrāllabdhamanurvīraḥ kaulādbhavati brahmavit.
शाक्ताभिषेकी वीरः स्यात् पञ्च तत्त्वानि शोधयेत् ।
स्वेष्टपूजाविधावेव न तु चक्रेश्वरो भवेत् ॥२०४॥
204. śāktābhiṣekī vīraḥ syāt pañca tattvāni śodhayet ,
sveṣṭapūjāvidhāveva na tu cakreśvaro bhavet.
वीरघाती वृथापायी वीराणां स्त्रीगमस्तथा ।
स्तेयी महापातकिनस्तत्संसर्गी च पञ्चमः ॥२०५॥
205. vīraghātī vṛthāpāyī vīrāṇāṁ strīgamastathā ,
steyī mahāpātakinastatsaṁsargī ca pañcamaḥ.
कुलवर्त्म कुलद्रव्यं कुलसाधकमेव च ।
ये निन्दन्ति दुरात्मानस्ते गच्चन्त्यधमां गतिम् ॥२०६॥
206. kulavartma kuladravyaṁ kulasādhakameva ca ,
ye nindanti durātmānaste gaccantyadhamāṁ gatim.
नृत्यन्ति रुद्रडाकिन्यो नृत्यन्ति रुद्रभैरवाः ।
मांसास्थिचर्वणानन्दाः सुराकौलद्विषां नृणाम् ॥२०७॥
207. nṛtyanti rudraḍākinyo nṛtyanti rudrabhairavāḥ ,
māṁsāsthicarvaṇānandāḥ surākauladviṣāṁ nṛṇām.
दयालवः सत्यशीलाः सदा परहितैषिणः ।
तान् गर्हयन्तो नरकान्निष्कृतिं यान्ति न क्वचित् ॥२०८॥
208. dayālavaḥ satyaśīlāḥ sadā parahitaiṣiṇaḥ ,
tān garhayanto narakānniṣkṛtiṁ yānti na kvacit.
उक्ता प्रयोगा बहवः कर्माणि विविधानि च ।
ब्रह्मैकनिष्ठकौलस्य त्यागानुष्ठानयोः समम् ॥२०९॥
209. uktā prayogā bahavaḥ karmāṇi vividhāni ca ,
brahmaikaniṣṭhakaulasya tyāgānuṣṭhānayoḥ samam.
एकमेव परं ब्रह्म जगदावृत्य तिष्ठति ।
विश्वार्चया तदर्चा स्यात् यतः सर्वं तदन्वितम् ॥२१०॥
210. ekameva paraṁ brahma jagadāvṛtya tiṣṭhati ,
viśvārcayā tadarcā syāt yataḥ sarvaṁ tadanvitam.
फलासक्ताः कामपराः कर्मजालरताः प्रिये ।
पृथक्त्वेन यजन्तोऽपि तत् प्रयान्ति विशन्ति च ॥२११॥
211. phalāsaktāḥ kāmaparāḥ karmajālaratāḥ priye ,
pṛthaktvena yajanto'pi tat prayānti viśanti ca.
सर्वं ब्रह्मणि सर्वत्र ब्रह्मैव परिपश्यति ।
ज्ञेयः स एव सत्कौलो जीवन्मुक्तो न संशयः ॥२१२॥
212. sarvaṁ brahmaṇi sarvatra brahmaiva paripaśyati ,
jñeyaḥ sa eva satkaulo jīvanmukto na saṁśayaḥ.