कुलार्णव-तन्त्रम्
kulārṇava-tantram
-
chapter-11
कुलेश श्रोतुमिच्चामि सर्वलोकैकपूजित ।
कुलाचारक्रमं देव वद मे करुणानिधे ॥१॥
कुलाचारक्रमं देव वद मे करुणानिधे ॥१॥
1. kuleśa śrotumiccāmi sarvalokaikapūjita ,
kulācārakramaṁ deva vada me karuṇānidhe.

शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्चसि ।
तस्य श्रवणमात्रेण पशुपाशैः प्रमुच्यते ॥२॥

2. śṛṇu devi pravakṣyāmi yanmāṁ tvaṁ paripṛccasi ,
tasya śravaṇamātreṇa paśupāśaiḥ pramucyate.

यदि चेद्दीक्षितो ज्येष्ठः कुलपूजादिवजीतः ।
तत्कनिष्ठः क्रमज्ञश्चेत् कुलपूजां समाचरेत् ॥३॥

3. yadi ceddīkṣito jyeṣṭhaḥ kulapūjādivajītaḥ ,
tatkaniṣṭhaḥ kramajñaścet kulapūjāṁ samācaret.

तत्समीपं ततो गत्वा नमस्कृत्य गुरुं यथा ।
तस्मै निवेद्य तत्सर्वं शेष भुञ्जीत पार्वती ॥४॥

4. tatsamīpaṁ tato gatvā namaskṛtya guruṁ yathā ,
tasmai nivedya tatsarvaṁ śeṣa bhuñjīta pārvatī.

पूजामध्ये गुरौ ज्येष्ठे पूज्ये वापि समागते ।
नत्वा ब्रूयात् स्थितं शिष्टमाचरेत्तदनुज्ञया ॥५॥

5. pūjāmadhye gurau jyeṣṭhe pūjye vāpi samāgate ,
natvā brūyāt sthitaṁ śiṣṭamācarettadanujñayā.

ज्येष्ठस्य च कनिष्ठस्य शिष्यावेकत्र संस्थितौ ।
तत्र पूर्ववदाचारः कथितः कुलनायिके ॥६॥
तत्र पूर्ववदाचारः कथितः कुलनायिके ॥६॥
6. jyeṣṭhasya ca kaniṣṭhasya śiṣyāvekatra saṁsthitau ,
tatra pūrvavadācāraḥ kathitaḥ kulanāyike.

अज्ञातकौलिके प्राप्ते पौर्वापर्यन्तु चिन्तयेत् ।
स्मृत्वा स्वस्य गुरुं देवि स्वस्य मार्गेण तर्पयेत् ॥७॥

7. ajñātakaulike prāpte paurvāparyantu cintayet ,
smṛtvā svasya guruṁ devi svasya mārgeṇa tarpayet.

नित्यार्चनं दिने कुर्याद्रात्रौ नैमित्तिकार्चनम् ।
उभयोः काम्यकर्माणि चेति शास्त्रस्य निर्णयः ॥८॥

8. nityārcanaṁ dine kuryādrātrau naimittikārcanam ,
ubhayoḥ kāmyakarmāṇi ceti śāstrasya nirṇayaḥ.

अस्नात्वाऽनासनस्थो वा भुक्त्वा वा प्रलपन्नपि ।
गन्धपुष्पाक्षता कल्पवस्त्राद्यैरनलंकृतः ।
अविन्यस्तशरीरो वा कुलपूजां न चाचरेत् ॥९॥

9. asnātvā'nāsanastho vā bhuktvā vā pralapannapi ,
gandhapuṣpākṣatā kalpavastrādyairanalaṁkṛtaḥ ,
avinyastaśarīro vā kulapūjāṁ na cācaret.

विना मन्त्रेण या पूजा विना मांसेन तर्पणम् ।
विना शक्त्या तु यत्पानं निष्फलं कथितं प्रिये ॥१०॥

10. vinā mantreṇa yā pūjā vinā māṁsena tarpaṇam ,
vinā śaktyā tu yatpānaṁ niṣphalaṁ kathitaṁ priye.

श्रीचक्रमेको वा कुर्यादेकपात्रन्तु नार्चयेत् ।
नार्चयेदेकहस्तेन न पिबेदेकपाणिना ॥११॥
नार्चयेदेकहस्तेन न पिबेदेकपाणिना ॥११॥
11. śrīcakrameko vā kuryādekapātrantu nārcayet ,
nārcayedekahastena na pibedekapāṇinā.
nārcayedekahastena na pibedekapāṇinā.
मत्स्यमांसासवैर्द्देवि नार्चयेत् पशुसन्निधौ ।
प्रणम्य प्रविशेच्चक्रं विनिर्गच्चेत्प्रणम्य च ॥१२॥

12. matsyamāṁsāsavairddevi nārcayet paśusannidhau ,
praṇamya praviśeccakraṁ vinirgaccetpraṇamya ca.

श्रीचक्रे नासने तिष्ठेन्न च वीरासने प्रिये ।
श्रीचक्रदर्शने देवि नेत्रयोः पापनाशनम् ।
तन्नास्ति चेद् व्रणद्वन्द्वं कौलिकस्याक्षियुग्मकम् ॥१३॥

13. śrīcakre nāsane tiṣṭhenna ca vīrāsane priye ,
śrīcakradarśane devi netrayoḥ pāpanāśanam ,
tannāsti ced vraṇadvandvaṁ kaulikasyākṣiyugmakam.

अनाचारान् सदाचारान् चक्रस्थान् शक्तिकौलिकान् ।
शिवगौरीधिया देवि भावयेन्नावमानयेत् ॥१४॥
शिवगौरीधिया देवि भावयेन्नावमानयेत् ॥१४॥
14. anācārān sadācārān cakrasthān śaktikaulikān ,
śivagaurīdhiyā devi bhāvayennāvamānayet.

कुलाचार्यगृहं गत्वा भक्त्या पापविशुद्धये ।
याचेदमृतञ्चान्नञ्च तदभावे जलं पिबेत् ॥१५॥

15. kulācāryagṛhaṁ gatvā bhaktyā pāpaviśuddhaye ,
yācedamṛtañcānnañca tadabhāve jalaṁ pibet.

कुलाचार्येण तच्चक्त्या दत्तं पात्रञ्च भक्तितः ।
नमस्कृत्य तु गृह्णीयादन्यथा नरकं व्रजेत् ॥१६॥

16. kulācāryeṇa taccaktyā dattaṁ pātrañca bhaktitaḥ ,
namaskṛtya tu gṛhṇīyādanyathā narakaṁ vrajet.

अस्नात्वा वाप्यभक्त्या वा लोभाद्वापि कुलेश्वरि ।
यः सेवेत कुलद्रव्यं दारिद्र्यं समवाप्नुयात् ॥१७॥

17. asnātvā vāpyabhaktyā vā lobhādvāpi kuleśvari ,
yaḥ seveta kuladravyaṁ dāridryaṁ samavāpnuyāt.

उष्णीषी कञ्चुकी नग्नो मुक्तकेशो गणावृतः ।
व्यग्रो रुष्टो विवादी च न सेवेत कुलामृतम् ॥१८॥

18. uṣṇīṣī kañcukī nagno muktakeśo gaṇāvṛtaḥ ,
vyagro ruṣṭo vivādī ca na seveta kulāmṛtam.

योगामृतेन निष्ठीवान्मद्यभाण्डपरिभ्रमात् ।
ऊर्ध्व नालेन पानाच्च देवताशापमाप्नुयात् ॥१९॥

19. yogāmṛtena niṣṭhīvānmadyabhāṇḍaparibhramāt ,
ūrdhva nālena pānācca devatāśāpamāpnuyāt.

एकासने निविष्टस्तु भुञ्जानस्त्वेकभाजने ।
एकपात्रे पिबेद्द्रव्यं ते यान्ति नरकं प्रिये ॥२०॥

20. ekāsane niviṣṭastu bhuñjānastvekabhājane ,
ekapātre pibeddravyaṁ te yānti narakaṁ priye.

यः सेवेत कुलद्रव्यमेकग्रामे स्थिते गुरौ ।
तत्कुलज्ञे च तत्पुत्रे स्वजेष्ठे कुलदेशिके ।
विनानुज्ञां महेशानि सोऽक्षयं नरकं व्रजेत् ॥२१॥

21. yaḥ seveta kuladravyamekagrāme sthite gurau ,
tatkulajñe ca tatputre svajeṣṭhe kuladeśike ,
vinānujñāṁ maheśāni so'kṣayaṁ narakaṁ vrajet.

उच्चिष्टो न स्पृशेच्चक्रे कुलद्रव्याणि पार्वति ।
बहिःप्रक्षाल्य च करौ कुलद्रव्याणि दापयेत् ॥२२॥

22. ucciṣṭo na spṛśeccakre kuladravyāṇi pārvati ,
bahiḥprakṣālya ca karau kuladravyāṇi dāpayet.

मद्यभाण्डं समुधृत्च न पात्रं पूरयेत् प्रिये ।
भोगपात्रं सुराकुण्डे निक्षिपेन्न कदाचन ॥२३॥

23. madyabhāṇḍaṁ samudhṛtca na pātraṁ pūrayet priye ,
bhogapātraṁ surākuṇḍe nikṣipenna kadācana.

चक्रमध्ये शुचिधिया करप्रक्षालनादिकम् ।
यः करोति हि मूढात्मा स भवेदापदाम्पदम् ॥२४॥

24. cakramadhye śucidhiyā karaprakṣālanādikam ,
yaḥ karoti hi mūḍhātmā sa bhavedāpadāmpadam.

निष्ठीवनं मलं मूत्रमधोवायुविसर्जनम् ।
श्रीचक्रमध्ये यः कुर्यात् स भवेद् योगिनीपशुः ॥२५॥

25. niṣṭhīvanaṁ malaṁ mūtramadhovāyuvisarjanam ,
śrīcakramadhye yaḥ kuryāt sa bhaved yoginīpaśuḥ.

चक्रमध्ये घटे भग्ने पात्रे च पतिते भुवि ।
दीपनाशे च शान्त्यर्थं श्रीचक्रं कारयेत् प्रिये ॥२६॥

26. cakramadhye ghaṭe bhagne pātre ca patite bhuvi ,
dīpanāśe ca śāntyarthaṁ śrīcakraṁ kārayet priye.

मत्ता जपन्ति ध्यायन्ति स्तुवन्ति प्रणमन्ति च ।
बोधयन्ति च पृच्चन्ति नन्दन्ति ज्ञानिनः प्रिये ॥२७॥

27. mattā japanti dhyāyanti stuvanti praṇamanti ca ,
bodhayanti ca pṛccanti nandanti jñāninaḥ priye.

मत्ता भ्रमन्ति गर्जन्ति हसन्ति विवदन्ति च ।
रुदन्ति स्त्रियमिच्चन्ति निन्दन्त्यज्ञानिनः प्रिये ॥२८॥

28. mattā bhramanti garjanti hasanti vivadanti ca ,
rudanti striyamiccanti nindantyajñāninaḥ priye.

परिहासं प्रलापञ्च वितण्डां बहुभाषितम् ।
औदासीन्यं भयं क्रोधं चक्रमध्ये विवर्जयेत् ॥२९॥

29. parihāsaṁ pralāpañca vitaṇḍāṁ bahubhāṣitam ,
audāsīnyaṁ bhayaṁ krodhaṁ cakramadhye vivarjayet.

पात्रहस्तो महादेवि न भ्रमेच्चक्रमध्यतः ।
पूर्णपात्रं करे कृत्वा न तिष्ठेत्तु चिरं प्रिये ॥३०॥

30. pātrahasto mahādevi na bhrameccakramadhyataḥ ,
pūrṇapātraṁ kare kṛtvā na tiṣṭhettu ciraṁ priye.

नालपेत् पात्रहस्तः सन् न भिन्द्यात् पात्रमम्बिके ।
पादाभ्यां न स्पृशेत् पात्रं न बिन्दुं पातयेदधः ॥३१॥

31. nālapet pātrahastaḥ san na bhindyāt pātramambike ,
pādābhyāṁ na spṛśet pātraṁ na binduṁ pātayedadhaḥ.

नैकहस्तेन दातव्यं न मुद्रावजीतं प्रिये ।
पात्रं न चालयेत स्थानान्न कुर्यात् पात्रसङ्करम् ॥३२॥

32. naikahastena dātavyaṁ na mudrāvajītaṁ priye ,
pātraṁ na cālayeta sthānānna kuryāt pātrasaṅkaram.

सशब्दं न पिबेन्मद्यं तथैव न च पूरयेत् ।
नान्योन्यं ताडयेत्पात्रं तथा न पातयेदधः ॥३३॥

33. saśabdaṁ na pibenmadyaṁ tathaiva na ca pūrayet ,
nānyonyaṁ tāḍayetpātraṁ tathā na pātayedadhaḥ.

साधारं नोद्धरेत् पात्रमनाधारे न निक्षिपेत् ।
रिक्तपात्रं न कुर्वीत न पात्रं भ्रामयेत् प्रिये ॥३४॥

34. sādhāraṁ noddharet pātramanādhāre na nikṣipet ,
riktapātraṁ na kurvīta na pātraṁ bhrāmayet priye.

न पात्रं लंघयेद्धीमान् पात्रं नोत्पातयेत् प्रिये ।
प्रक्षाल्य गोपयेत् पात्रमित्याज्ञा परमेश्वरि ॥३५॥

35. na pātraṁ laṁghayeddhīmān pātraṁ notpātayet priye ,
prakṣālya gopayet pātramityājñā parameśvari.

यदा सन्दीपितोल्लासः कौलिकः पशुमीक्षते ।
पठेद्वा पशुशास्त्राणि सङ्गच्चेद्वा पशुस्त्रियम् ॥३६॥

36. yadā sandīpitollāsaḥ kaulikaḥ paśumīkṣate ,
paṭhedvā paśuśāstrāṇi saṅgaccedvā paśustriyam.

कुर्यात् पशुप्रसङ्गं वा पशुकार्याणि वा चरेत् ।
धर्मार्थायुर्यशःपुण्यमर्थसौख्यादि नश्यति ॥३७॥

37. kuryāt paśuprasaṅgaṁ vā paśukāryāṇi vā caret ,
dharmārthāyuryaśaḥpuṇyamarthasaukhyādi naśyati.

श्रीचक्रस्थं कुलद्रव्यं यः पशुभ्यः प्रयच्चति ।
स्नेहाल्लोभाद्भयाद्वापि स भवेद् योगिनीपशुः ॥३८॥

38. śrīcakrasthaṁ kuladravyaṁ yaḥ paśubhyaḥ prayaccati ,
snehāllobhādbhayādvāpi sa bhaved yoginīpaśuḥ.

रिपुणापि न कर्त्तव्यो वाग्वादश्चक्रमध्यतः ।
पितृमातृसमं पश्येत्तेनोक्तं परुषं सहेत् ॥३९॥

39. ripuṇāpi na karttavyo vāgvādaścakramadhyataḥ ,
pitṛmātṛsamaṁ paśyettenoktaṁ paruṣaṁ sahet.

यथास्त्रीपुत्रमित्रादि दृष्ट्वा चेतः प्रहृष्यति ।
तथा चेत् कौलिकान् दृष्ट्वा स भवेद् योगिनीप्रियः ॥४०॥

40. yathāstrīputramitrādi dṛṣṭvā cetaḥ prahṛṣyati ,
tathā cet kaulikān dṛṣṭvā sa bhaved yoginīpriyaḥ.

ब्रह्मादिस्तम्बपर्यन्तं यस्य मे गुरुसन्ततिः ।
यस्य मे सर्वशिष्यस्य को न पूज्यो महीतले ।
द्दति निश्चितबुद्धिर्यः स भवेदावयोः प्रियः ॥४१॥

41. brahmādistambaparyantaṁ yasya me gurusantatiḥ ,
yasya me sarvaśiṣyasya ko na pūjyo mahītale ,
ddati niścitabuddhiryaḥ sa bhavedāvayoḥ priyaḥ.

अहं गुरुरहं ज्येष्ठस्त्वहं वेद्मीति गवीतः ।
अहमेव गतिर्येषां कौलिका न भवन्ति ते ॥४२॥

42. ahaṁ gururahaṁ jyeṣṭhastvahaṁ vedmīti gavītaḥ ,
ahameva gatiryeṣāṁ kaulikā na bhavanti te.

श्रीगुरुं कुलशास्त्राणि पूजास्थानानि यानि च ।
भक्त्या श्रीपूर्वकं देवि प्रणम्य परिकीर्त्तयेत् ॥४३॥

43. śrīguruṁ kulaśāstrāṇi pūjāsthānāni yāni ca ,
bhaktyā śrīpūrvakaṁ devi praṇamya parikīrttayet.

गुरुं नाम्ना न भावेत जपकालादृते प्रिये ।
श्रीनाथ देव स्वामीति विवादे साधने वदेत् ॥४४॥

44. guruṁ nāmnā na bhāveta japakālādṛte priye ,
śrīnātha deva svāmīti vivāde sādhane vadet.

श्रीगुरोः पादुकां मुद्रां मूलमन्त्रं स्वपादुकाम् ।
शिष्यादन्यस्य देवेशि न वदेद् यस्य कस्यचित् ॥४५॥

45. śrīguroḥ pādukāṁ mudrāṁ mūlamantraṁ svapādukām ,
śiṣyādanyasya deveśi na vaded yasya kasyacit.

पारम्पर्यागमाम्नायं मन्त्राचारादिकं प्रिये ।
सर्व गुरुमुखाल्लब्धं सफलं स्यान्न चान्यथा ॥४६॥

46. pāramparyāgamāmnāyaṁ mantrācārādikaṁ priye ,
sarva gurumukhāllabdhaṁ saphalaṁ syānna cānyathā.

श्रीशास्त्राश्रयमूलञ्च पुस्तकं न वदेत् प्रिये ।
नित्यं समर्चयेद्भक्त्या पशुहस्ते न निक्षिपेत् ॥४७॥

47. śrīśāstrāśrayamūlañca pustakaṁ na vadet priye ,
nityaṁ samarcayedbhaktyā paśuhaste na nikṣipet.

स्वदारवन्निषेवेत कुलशास्त्राणि पार्वति ।
पशुशास्त्राणि सर्वाणि वर्जयेत् परदारवत् ॥४८॥

48. svadāravanniṣeveta kulaśāstrāṇi pārvati ,
paśuśāstrāṇi sarvāṇi varjayet paradāravat.

स्वचर्मस्थं यथा क्षीरमपेयं स्याद् द्विजोत्तमैः ।
तथा पशुमुखाद्धर्मो न श्रोतव्यो हि कौलिकैः ॥४९॥

49. svacarmasthaṁ yathā kṣīramapeyaṁ syād dvijottamaiḥ ,
tathā paśumukhāddharmo na śrotavyo hi kaulikaiḥ.

यः शृणोति कुलाचारं यथाशास्त्रञ्च यो वदेत् ।
तावुभौ गच्चतः साक्षाद् योगिनीवीरमेलनम् ॥५०॥

50. yaḥ śṛṇoti kulācāraṁ yathāśāstrañca yo vadet ,
tāvubhau gaccataḥ sākṣād yoginīvīramelanam.

अश्रद्धधाना ये चात्र कुलधर्मे कुलेश्वरि ।
नरकान्नो निवर्त्तन्ते यावदाहूत संप्लवम् ॥५१॥

51. aśraddhadhānā ye cātra kuladharme kuleśvari ,
narakānno nivarttante yāvadāhūta saṁplavam.

ऊढा धृता तथा क्रीता मूल्येन च समाहृता ।
सकृत् कामरता वापि पञ्चधा गुरुयोषितः ।
अलंघ्याः पूजनीयाः स्युर्गुरुवद्गुरुयोषितः ॥५२॥

52. ūḍhā dhṛtā tathā krītā mūlyena ca samāhṛtā ,
sakṛt kāmaratā vāpi pañcadhā guruyoṣitaḥ ,
alaṁghyāḥ pūjanīyāḥ syurguruvadguruyoṣitaḥ.

गुरुशक्तिं वीरभार्यां कुमारीं व्रतधारिणीम् ।
व्यङ्गाङ्गी विकृताङ्गीञ्च कुब्जामपि न कामयेत् ॥५३॥

53. guruśaktiṁ vīrabhāryāṁ kumārīṁ vratadhāriṇīm ,
vyaṅgāṅgī vikṛtāṅgīñca kubjāmapi na kāmayet.

सुताञ्च भगिनीं पौत्रीं स्नुषां वापि प्रियामपि ।
न कामयेद् गुरोरग्रे कुर्यान्नान्योन्यसंग्रहम् ॥५४॥

54. sutāñca bhaginīṁ pautrīṁ snuṣāṁ vāpi priyāmapi ,
na kāmayed guroragre kuryānnānyonyasaṁgraham.

कृष्णांशुकां कृष्णवणारं कुमारीञ्च कृशोदरीम् ।
मनोहरां यौवनस्थामर्चयेद्देवताधिया ॥५५॥
मनोहरां यौवनस्थामर्चयेद्देवताधिया ॥५५॥
55. kṛṣṇāṁśukāṁ kṛṣṇavaṇārṁ kumārīñca kṛśodarīm ,
manoharāṁ yauvanasthāmarcayeddevatādhiyā.

एकदापि न सेवेत बलेन कुलयोगिनीम् ।
चक्रमध्ये स्वयं क्षुब्धां कामयेत् कुलसुन्दरि ॥५६॥

56. ekadāpi na seveta balena kulayoginīm ,
cakramadhye svayaṁ kṣubdhāṁ kāmayet kulasundari.

आममांसं सुराकुम्भं मत्तेभं सिद्धिलिङ्गिनम् ।
सहकारमशोकञ्च क्रीडालोलाः कुमारिकाः ॥५७॥
सहकारमशोकञ्च क्रीडालोलाः कुमारिकाः ॥५७॥
57. āmamāṁsaṁ surākumbhaṁ mattebhaṁ siddhiliṅginam ,
sahakāramaśokañca krīḍālolāḥ kumārikāḥ.
sahakāramaśokañca krīḍālolāḥ kumārikāḥ.
एक्रवृक्षं श्मशानञ्च समूहं योषतामपि ।
नारीञ्च रक्तवसनां दृष्ट्वा वन्देत भक्तितः ॥५८॥

58. ekravṛkṣaṁ śmaśānañca samūhaṁ yoṣatāmapi ,
nārīñca raktavasanāṁ dṛṣṭvā vandeta bhaktitaḥ.

गुरुशक्तिसुतज्येष्ठकनिष्ठान् कुलदेशिकान् ।
कुलदर्शनशास्त्राणि कुलद्रव्याणि कौलिकान् ॥५९॥

59. guruśaktisutajyeṣṭhakaniṣṭhān kuladeśikān ,
kuladarśanaśāstrāṇi kuladravyāṇi kaulikān.

प्रेरकान् सूचकांश्चापि वाचकान् दर्शकांस्तथा ।
शिक्षकान् बोधकान् योगी योगिनीसिद्धिरूपकान् ॥६०॥

60. prerakān sūcakāṁścāpi vācakān darśakāṁstathā ,
śikṣakān bodhakān yogī yoginīsiddhirūpakān.

कन्यां कुमारिकां नग्नामुन्मत्तां वापि योषितम् ।
न निन्देन्न जुगुप्सेत न हसेन्नावमानयेत् ॥६१॥

61. kanyāṁ kumārikāṁ nagnāmunmattāṁ vāpi yoṣitam ,
na nindenna jugupseta na hasennāvamānayet.

नाप्रियं नानृतं ब्रूयात् कस्यापि कुलयोगिनः ।
कुरूपा चेति कृष्णेति न वदेत् कुलयोषितम् ॥६२॥

62. nāpriyaṁ nānṛtaṁ brūyāt kasyāpi kulayoginaḥ ,
kurūpā ceti kṛṣṇeti na vadet kulayoṣitam.

परीक्षयेन्न भक्तानां वीराणाञ्च कृताकृतम् ।
न पश्येद्वनितां नग्नामुन्मत्तां प्रकटस्तनीम् ॥६३॥

63. parīkṣayenna bhaktānāṁ vīrāṇāñca kṛtākṛtam ,
na paśyedvanitāṁ nagnāmunmattāṁ prakaṭastanīm.

दिवसे न रमेन्नारीं तद्योनिं नैव वीक्षयेत् ।
या काचिदङ्गना लोके सा मातृ कुलसम्भवा ॥६४॥

64. divase na ramennārīṁ tadyoniṁ naiva vīkṣayet ,
yā kācidaṅganā loke sā mātṛ kulasambhavā.

कुप्यन्ति कुलयोगिन्यो वनितानां व्यतिक्रमात् ।
स्त्रियं शतापराधाञ्चेत् पुष्पेणापि न ताडयेत् ।
दोषान्न गणयेत् स्त्रीणां गुणानेव प्रकाशयेत् ॥६५॥

65. kupyanti kulayoginyo vanitānāṁ vyatikramāt ,
striyaṁ śatāparādhāñcet puṣpeṇāpi na tāḍayet ,
doṣānna gaṇayet strīṇāṁ guṇāneva prakāśayet.

तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा ।
तत्पत्रेषु न भोक्तव्यमर्चयेत्तु विशेषतः ॥६६॥

66. tiṣṭhanti kulayoginyaḥ kulavṛkṣeṣu sarvadā ,
tatpatreṣu na bhoktavyamarcayettu viśeṣataḥ.

न स्वपेत् कुलवृक्षाधो न चोपद्रवमाचरेत् ।
दृष्ट्वा भक्त्या नमस्कुर्याच्चेदयेन्न कदाचन ॥६७॥

67. na svapet kulavṛkṣādho na copadravamācaret ,
dṛṣṭvā bhaktyā namaskuryāccedayenna kadācana.

श्लेष्मातकं करञ्जाख्यं निम्बाश्वत्थकदम्बकाः ।
बिल्ववटोडुम्बराश्च तिन्तिडी नवमी स्मृता ॥६८॥

68. śleṣmātakaṁ karañjākhyaṁ nimbāśvatthakadambakāḥ ,
bilvavaṭoḍumbarāśca tintiḍī navamī smṛtā.

प्रायश्चित्तं भृगोः पातं संन्यासं व्रतधारणम् ।
तीर्थयात्राभिगमनं कौलः पञ्च विवर्जयेत् ॥६९॥

69. prāyaścittaṁ bhṛgoḥ pātaṁ saṁnyāsaṁ vratadhāraṇam ,
tīrthayātrābhigamanaṁ kaulaḥ pañca vivarjayet.

वीरहत्या वृथापानं वीरपत्नीनिषेवणम् ।
वीरद्रव्यापहरणम् तत्संयोगश्च पञ्चमः ।
महापातकमित्युक्तं कौलिकानां कुलान्वये ॥७०॥

70. vīrahatyā vṛthāpānaṁ vīrapatnīniṣevaṇam ,
vīradravyāpaharaṇam tatsaṁyogaśca pañcamaḥ ,
mahāpātakamityuktaṁ kaulikānāṁ kulānvaye.

शैवे तत्त्वपरिज्ञानं गारुडे विषभक्षणम् ।
ज्योतिषे ग्रहणं सारं कौलेऽनुग्रहनिग्रहौ ॥७१॥

71. śaive tattvaparijñānaṁ gāruḍe viṣabhakṣaṇam ,
jyotiṣe grahaṇaṁ sāraṁ kaule'nugrahanigrahau.

देवतागुरुशास्त्राणां सिद्धाचारविडम्बकाः ।
विद्याचौरो गुरुद्रोही ब्रह्मराक्षसतां व्रजेत् ॥७२॥

72. devatāguruśāstrāṇāṁ siddhācāraviḍambakāḥ ,
vidyācauro gurudrohī brahmarākṣasatāṁ vrajet.

गुरुवाक्यं हतं कृत्वा वीरान् निर्भर्त्स्य च प्रिये ।
गुरुं हुङ्कृत्य तुङ्कृत्य वीरं निजीत्य वादतः ।
विकल्प्य कुलशास्त्राणि भवन्ति ब्रह्मराक्षसाः ॥७३॥

73. guruvākyaṁ hataṁ kṛtvā vīrān nirbhartsya ca priye ,
guruṁ huṅkṛtya tuṅkṛtya vīraṁ nijītya vādataḥ ,
vikalpya kulaśāstrāṇi bhavanti brahmarākṣasāḥ.

एकाक्षरप्रदातारं यो गुरुञ्चावमानयेत् ।
श्वानं योनिशतं गत्वा चण्डालत्वमवाप्नुयात् ॥७४॥

74. ekākṣarapradātāraṁ yo guruñcāvamānayet ,
śvānaṁ yoniśataṁ gatvā caṇḍālatvamavāpnuyāt.

मातरं पितरं भार्यां भ्रातरं बान्धवं सुतम् ।
कुलनिन्दाकरं देवि हन्यादेवाविचारयन् ॥७५॥

75. mātaraṁ pitaraṁ bhāryāṁ bhrātaraṁ bāndhavaṁ sutam ,
kulanindākaraṁ devi hanyādevāvicārayan.
kulanindākaraṁ devi hanyādevāvicārayan.
गुर्वर्थं देवतार्थं वा कौलिकार्थं कुलेश्वरि ।
कुलागमार्थमथवा कुलधर्मार्थमेव वा ॥७६॥
कुलागमार्थमथवा कुलधर्मार्थमेव वा ॥७६॥
76. gurvarthaṁ devatārthaṁ vā kaulikārthaṁ kuleśvari ,
kulāgamārthamathavā kuladharmārthameva vā.

देवि निन्दाकरं हत्वा बाधितः स्वयमेव वा ।
यस्त्यजेद्दुस्त्यजप्राणान् स परे लीयते शिवे ॥७७॥

77. devi nindākaraṁ hatvā bādhitaḥ svayameva vā ,
yastyajeddustyajaprāṇān sa pare līyate śive.

एकस्मिन्निधनं यत्र प्रापिते दुष्टचारिणि ।
बहूनां भवति क्षेमं पुण्यं तस्य वधे भवेत् ॥७८॥

78. ekasminnidhanaṁ yatra prāpite duṣṭacāriṇi ,
bahūnāṁ bhavati kṣemaṁ puṇyaṁ tasya vadhe bhavet.

श्रीचक्रकृतवृत्तान्तं शुभं वा यदि वाऽशुभम् ।
कदाचिन्नैव वक्तव्यमित्याज्ञा परमेश्वरि ॥७९॥

79. śrīcakrakṛtavṛttāntaṁ śubhaṁ vā yadi vā'śubham ,
kadācinnaiva vaktavyamityājñā parameśvari.

कुलधर्मप्रसङ्गञ्च पशूनां पुरतः प्रिये ।
कदाचिन्नैव कुर्वीत शूद्राग्रे देवपाठवत् ॥८०॥

80. kuladharmaprasaṅgañca paśūnāṁ purataḥ priye ,
kadācinnaiva kurvīta śūdrāgre devapāṭhavat.

पीठक्षेत्रागमाम्नायं तद्विद्याचारकौलिकान् ।
कुलद्रव्यादिकं देवि न वदेत् पशुसन्निधौ ॥८१॥

81. pīṭhakṣetrāgamāmnāyaṁ tadvidyācārakaulikān ,
kuladravyādikaṁ devi na vadet paśusannidhau.

यथा रक्षति चौरेभ्यो धनधान्यादिकं प्रिये ।
कुलधर्मं तथा देवि पशुभ्यः परिरक्षयेत् ॥८२॥

82. yathā rakṣati caurebhyo dhanadhānyādikaṁ priye ,
kuladharmaṁ tathā devi paśubhyaḥ parirakṣayet.

अन्तः कौलो बहिः शैवो जनमध्ये तु वैष्णवः ।
कौलं सुगोपयेद्देवि नारिकेलफलाम्बुवत् ॥८३॥

83. antaḥ kaulo bahiḥ śaivo janamadhye tu vaiṣṇavaḥ ,
kaulaṁ sugopayeddevi nārikelaphalāmbuvat.

कुलधर्मादिकं सर्वं सर्वावस्थासु सर्वदा ।
गोपयेच्च प्रयत्नेन जननीजारगर्भवत् ॥८४॥
गोपयेच्च प्रयत्नेन जननीजारगर्भवत् ॥८४॥
84. kuladharmādikaṁ sarvaṁ sarvāvasthāsu sarvadā ,
gopayecca prayatnena jananījāragarbhavat.

वेदशास्त्रपुराणानि स्पष्टानि गणिका इव ।
इयन्तु शाम्भवी विद्या गुप्ता कुलवधूरिव ॥८५॥

85. vedaśāstrapurāṇāni spaṣṭāni gaṇikā iva ,
iyantu śāmbhavī vidyā guptā kulavadhūriva.

सुगुप्तकौलिकाचारमनुगृह्णन्ति देवताः ।
वाञ्चासिद्धिं प्रयच्चन्ति नाशयन्ति प्रकाशकान् ॥८६॥

86. suguptakaulikācāramanugṛhṇanti devatāḥ ,
vāñcāsiddhiṁ prayaccanti nāśayanti prakāśakān.

कुलेशि कुलशास्त्रज्ञाः कुलपूजापरायणाः ।
ये त्वां रहसि सेवन्ते ते तिष्ठन्ति तवान्तिके ॥८७॥

87. kuleśi kulaśāstrajñāḥ kulapūjāparāyaṇāḥ ,
ye tvāṁ rahasi sevante te tiṣṭhanti tavāntike.

गुरुं प्रकाशयेद्धीमान् मन्त्रं यत्नेन गोपयेत् ।
अप्रकाशप्रकाशाभ्यां नश्यतः सम्पदायुषी ॥८८॥

88. guruṁ prakāśayeddhīmān mantraṁ yatnena gopayet ,
aprakāśaprakāśābhyāṁ naśyataḥ sampadāyuṣī.

सर्वाचारपरिभ्रष्टः कुलाचारं समाश्रयेत् ।
कुलाचारपरिभ्रष्टौ रौरवं नरकं व्रजेत् ॥८९॥

89. sarvācāraparibhraṣṭaḥ kulācāraṁ samāśrayet ,
kulācāraparibhraṣṭau rauravaṁ narakaṁ vrajet.

शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि ।
कुलभ्रष्टस्य देवेशि न दृष्टा निष्कृतिः क्वचित् ॥९०॥

90. śāstreṣu niṣkṛtirdṛṣṭā mahāpātakināmapi ,
kulabhraṣṭasya deveśi na dṛṣṭā niṣkṛtiḥ kvacit.

कुलधर्म समाश्रित्य आचारं यो न पालयेत् ।
यथेच्चचारिणस्तस्य महापातकिनः प्रिये ॥९१॥

91. kuladharma samāśritya ācāraṁ yo na pālayet ,
yatheccacāriṇastasya mahāpātakinaḥ priye.

आपदो दुरितं रोगा दारिद्र्यं कलहो भयम् ।
योगिनीनां प्रकोपश्च स्खलितानि पदे पदे ॥९२॥

92. āpado duritaṁ rogā dāridryaṁ kalaho bhayam ,
yoginīnāṁ prakopaśca skhalitāni pade pade.

भ्रंशमानः प्रनष्टश्च तेजोहीनोऽतिदुर्मतिः ।
निन्दितः सर्वविद्विष्टो विह्वलः सङ्गवजीतः ।
देशाद्देशान्तरं याति कार्यहानिश्च सर्वदा ॥९३॥

93. bhraṁśamānaḥ pranaṣṭaśca tejohīno'tidurmatiḥ ,
ninditaḥ sarvavidviṣṭo vihvalaḥ saṅgavajītaḥ ,
deśāddeśāntaraṁ yāti kāryahāniśca sarvadā.

तत्रापि कुलमार्गस्थाः शाकिन्यः कुलपालिकाः ।
भक्षयन्ति पुरा तासां वरो दत्तो मयेव तु ॥९४॥

94. tatrāpi kulamārgasthāḥ śākinyaḥ kulapālikāḥ ,
bhakṣayanti purā tāsāṁ varo datto mayeva tu.

तस्मादाचारवान् देवि योगिनीनां प्रियो भवेत् ।
नाशयन्ति चतुर्वेदाननाचाराः कुलेश्वरि ॥९५॥

95. tasmādācāravān devi yoginīnāṁ priyo bhavet ,
nāśayanti caturvedānanācārāḥ kuleśvari.
nāśayanti caturvedānanācārāḥ kuleśvari.
पादुकामात्रसारज्ञः सदाचारेषु यन्त्रितः ।
सदाचारेण देवत्वं योगिनीवीरमेलनम् ।
सम्प्राप्नुवन्ति तिर्यक्त्वं कौलिकास्तद्विपर्ययात् ॥९६॥

96. pādukāmātrasārajñaḥ sadācāreṣu yantritaḥ ,
sadācāreṇa devatvaṁ yoginīvīramelanam ,
samprāpnuvanti tiryaktvaṁ kaulikāstadviparyayāt.

आज्ञासिद्धमिदं कौलमनाचाराद्विनश्यति ।
आचारपालनात् सत्यमाज्ञासिद्धिर्भविष्यति ॥९७॥

97. ājñāsiddhamidaṁ kaulamanācārādvinaśyati ,
ācārapālanāt satyamājñāsiddhirbhaviṣyati.

नाभिषेको न मन्त्रो वा न शास्त्रपठनादिकम् ।
कारणं कुलधर्मस्य सदाचारः कुलेश्वरि ॥९८॥
कारणं कुलधर्मस्य सदाचारः कुलेश्वरि ॥९८॥
98. nābhiṣeko na mantro vā na śāstrapaṭhanādikam ,
kāraṇaṁ kuladharmasya sadācāraḥ kuleśvari.

परा श्रीपादुकातत्त्वत्रयाचारादिवासनाः ।
यो वेत्ति समयी स स्यात् कौलिकश्चापि शाम्भवि ॥९९॥

99. parā śrīpādukātattvatrayācārādivāsanāḥ ,
yo vetti samayī sa syāt kaulikaścāpi śāmbhavi.

तावन्न कौलिको देवि यावन्न समयीकृतः ।
देहपाते विमोक्षः स्यात् समयाचारपालनात् ॥१००॥

100. tāvanna kauliko devi yāvanna samayīkṛtaḥ ,
dehapāte vimokṣaḥ syāt samayācārapālanāt.

संस्कारेण विहीनत्वाद् गुरुवाक्यस्य लङ्घनात् ।
आचारवर्जनाद्देवि कौलिकः पतितो भवेत् ॥१०१॥

101. saṁskāreṇa vihīnatvād guruvākyasya laṅghanāt ,
ācāravarjanāddevi kaulikaḥ patito bhavet.

नित्यं नैमित्तिकं द्रव्यं मन्त्रयन्त्रादिलोपनम् ।
अनर्हपशुदुःसङ्गमन्त्रसाङ्कर्यसम्भवम् ॥१०२॥

102. nityaṁ naimittikaṁ dravyaṁ mantrayantrādilopanam ,
anarhapaśuduḥsaṅgamantrasāṅkaryasambhavam.

गुप्तप्रकटसम्भूतं ज्ञानाज्ञानकृतं प्रिये ।
एवमादिषु दोषेषु पापस्य गुरुलाघवम् ॥१०३॥
एवमादिषु दोषेषु पापस्य गुरुलाघवम् ॥१०३॥
103. guptaprakaṭasambhūtaṁ jñānājñānakṛtaṁ priye ,
evamādiṣu doṣeṣu pāpasya gurulāghavam.
evamādiṣu doṣeṣu pāpasya gurulāghavam.
देशं कालं वयो वित्तं सम्यग् ज्ञात्वा यथाविधि ।
प्रायश्चित्तं गुरुर्द्दद्यात् सर्वपापविशुद्धये ॥१०४॥

104. deśaṁ kālaṁ vayo vittaṁ samyag jñātvā yathāvidhi ,
prāyaścittaṁ gururddadyāt sarvapāpaviśuddhaye.

शिष्योऽपि गुरुणाऽऽज्ञप्तं प्रायश्चित्तं समाचरेत् ।
अथवा सर्वपापानां गुरुनामजपः स्मृतः ॥१०५॥

105. śiṣyo'pi guruṇā''jñaptaṁ prāyaścittaṁ samācaret ,
athavā sarvapāpānāṁ gurunāmajapaḥ smṛtaḥ.

जाम्बूनदस्य कलुषं परिशुद्धं यथाग्निना ।
अनाचारस्य मालिन्यं प्रायञ्चित्ताग्निना दहेत् ॥१०६॥

106. jāmbūnadasya kaluṣaṁ pariśuddhaṁ yathāgninā ,
anācārasya mālinyaṁ prāyañcittāgninā dahet.

बहुनात्र किमुक्तेन रहस्यं शृणु पार्वती ।
वर्णाश्रमाणां सर्वेषामाचारः सद्गतिप्रदः ॥१०७॥

107. bahunātra kimuktena rahasyaṁ śṛṇu pārvatī ,
varṇāśramāṇāṁ sarveṣāmācāraḥ sadgatipradaḥ.

गुरुस्त्रिवारमाचारं कथयेच्च कुलेश्वरि ।
न गृह्णाति हि शिष्यश्चेत्तदा पापं गुरोर्न हि ॥१०८॥

108. gurustrivāramācāraṁ kathayecca kuleśvari ,
na gṛhṇāti hi śiṣyaścettadā pāpaṁ gurorna hi.

मन्त्रिदोषश्च राजानं जायादोषः पतिं यथा ।
तथा प्राप्नोत्यसन्देहं शिष्यपापं गुरुं प्रिये ॥१०९॥

109. mantridoṣaśca rājānaṁ jāyādoṣaḥ patiṁ yathā ,
tathā prāpnotyasandehaṁ śiṣyapāpaṁ guruṁ priye.

Links to all chapters:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11 (current chapter)
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17